This page has been fully proofread once and needs a second look.

१४४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
चेत् निगमाप्रमाणता '"सत्यं ज्ञानमनंतं ब्रह्मेति " वेदस्य बाधितार्थ-

बोधकता स्यात् । इष्टापत्तिरितिवेत् ईशितुरपि परमाप्तस्य सर्वज्ञस्य

परमेश्वरस्य असत्यवादित्वं अयथार्थवक्तृत्व स्यात् । तदपि भवत्विति चेत्

महात्मनां आस्तिकानां इत्यर्थः । महानात्मा येषां श्रुत्याचार्योपदेशेन

परिच्छिन्न-पंचकोशात्मबुद्धिं त्यक्त्वा कृतब्रह्मसाक्षात्कारतया अखण्डाकार-

वृत्तिमदन्तःकरणानां वा तेषां । नैतत्त्रयं साधु हितं सौमनस्यकरं सम्मत-

मित्यर्थः । स्वानुभवविरोधात् ॥ २३४॥
 

 
प्रपंचमिथ्यात्वे भगवद्गीतां प्रमाणयति । ईश्वर इति ।

 
ईश्वरो वस्तुतत्वज्ञो न चाहं तेष्ववस्थितः ।
 

न चमत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥

 
अज्ञानाभावेन भ्रमादिदोषशून्यः वस्तुयाथात्म्यज्ञानवानीश्वरः

" मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्यमे

योगमैश्वरम् " इत्येकस्मिन्वाक्ये मत्स्थानि सर्वभूतानि न च मत्स्थानीति

प्रतियोग्यभावयोः एकत्र विरोधशंकायां पश्य मे योगमैश्वरम् इति ईश्वरस्य

मम अघटितघटनोपायरूपं योगं मायां इत्यर्थः पश्येति मायिकत्वमुक्त-

वान् । तदेव मिथ्यात्वं प्रतिपन्नोपाधौ अभावप्रतियोगित्वस्यैव मिथ्यात्वात् ।

मत्स्थानि न च मत्स्थानीति पदाभ्यां अयमर्थः उक्तः । स्वाश्रयत्वेनाभिमत-

यावन्निष्ठाभावप्रतियोगित्वं स्वप्रकारकधी-विशेष्यताव्यापकात्यन्ताभाव-

प्रतियोगित्वपर्यवसितं प्रतिपन्नोपाधीधौ इत्यादेरर्थः । तथा च मत्स्थानीत्यत्र

ईश्वरः भूतानामाश्रय इति ज्ञातः । न च मत्स्थानीत्यनेन भूतानां तन्निष्ठा-

त्यन्ताभावप्रतियोगित्वमवगम्यते । तथाच " सर्वेषामेव भावानां स्वश्रय-

त्वेन सम्मते। प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता" इति चित्सुखाचार्य-

वचनेन पूर्वोक्तमिथ्यात्वं जगति सिद्धम् । घटवत्तया भ्रमविशेष्यनिष्ठा-
अर्थान्तरवारणाय स्वप्रकारक-

भावप्रतियोगित्वं परमतेप्यस्तीति
 
अर्थान्तरवारणाय स्वप्रकारक-
धीविशेष्यताव्यापकेति । तथाच यत्रास्तीति प्रमा तत्रापि स्वरूपतः

कल्पितत्वेनअभावात् यत्र यत्र स्वप्रकारकधीविशेष्यता तत्त्र सर्वत्र

घटादेर्वस्तुतोऽभावात् तत्प्रतियोगित्वं सुपपादमिति बोध्यम् । " मया तत-

मिदं सर्वं जगदव्यक्तमूर्तिना" इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तं,