This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४३
 
वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न
विनिर्गत: नष्टो नाभूत् निद्रितवत् निद्रितस्येव प्रजल्पः यथा सुप्तः
अनन्वितार्थकं किंवा किंवा असंबद्धं वदति तद्वत् विचारजन्यज्ञानमन्त रा
कथनं उपादानव्यतिरेकेण कार्यमस्तीति ॥ २३२॥
 
छान्दोग्यश्रुत्यनुसारेण कथितं अर्थं गतिसामान्याय आथर्वणिकश्रुत्या
आह । ब्रह्मैवेदमित्यादिना ।
 
ब्रह्मैवेदं विश्वमित्येव वाणी
 
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं
 
नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥
 
श्रौती सामान्यतः वैदिकीति, विशेषत आह अथर्वनिष्ठेति । अथर्व-
निष्ठा अथर्ववेदघटकीभूता अथर्वाख्य-ब्रह्मज्येष्ठपुत्रनिष्ठा वा श्रौती
वैदिकी अत्यन्तवरिष्ठा वाणी ब्रह्मैवेदं विश्वमिदं वरिष्ठं इतिरूपा, इदं
विश्वं सर्वं जगत्, ब्रह्मैव नातिरिक्तमित्येव एवकारेण पृथक् सत्तां निषिध्य
ब्रूते यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वं । हि निश्चय : आरोपितस्य
कल्पितस्य अधिष्ठानाद् भिन्नता न । एतेन अज्ञानादेरनादेः ब्रह्मोपादानक-
त्वाभावात् भिन्नत्वशंका परास्ता ॥२३३॥
 
एवं श्रुत्या प्रपंचसत्यत्वंनिरस्य युक्त्यापि तदनुसारिण्या निरस्यति ।
सत्यमिति ।
 
सत्यं यदि स्याज्जगदेतदात्मनोऽ
 
नंतत्वहानि-निंगमा प्रमाणता ।
असत्यवादित्वमपीशितुः स्यात्
 
नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३४ ॥
 
एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यं अकल्पितं स्यात् आत्मनो
ऽनंतत्वहानिः अन्योन्याभावाप्रतियोगित्वरूप-वस्तुपरिच्छेदशून्यत्वं न स्यात्
अकल्पितेन जगता वस्तुभुतेन परिच्छिद्यमानत्वात् । हीयतामनन्तत्वमिति