This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्फुटप्रतिपत्यर्थं पुनरुपपादयति । केनापीत्यादिना ।
 

 
केनापि मृद्भिन्नतया स्वरूपं घटस्य संदर्शयितुं न शक्यते ।

अतो घटः कल्पित एव मोहात् मृदेव सत्यं परमार्थभूतम् ॥२३॥
 
१४२
 
1
 

 
केनापि पुरुषेण ब्रह्मणापीति वा । घटस्य स्वरूपं मृद्भिन्नतया

संदर्शयितुं न शक्यते यतः अतो घटः मोहात् भिन्नतया कल्पित एव । मृदेव

सत्यं परमार्थभूतं घटशब्दस्य मुख्यार्थभूतम् मृत्तिकेत्येव सत्यमिति

श्रुतेः आदावन्ते च वर्तमानत्वात् ॥२३१॥
 
..
 

 
एवं मृद्घटदृष्टान्तेन उपादानव्यतिरेकेण उपादेयं कार्यं नास्ती-

त्युक्त्वा दान्तिके तदाह । सद्ब्रह्मेति ।
 
५.

 
सद्ब्रह्मकार्यं सकलं सदैव
 

सन्मात्रमेतन्नततोऽन्यदस्ति ।

अस्तीति यो वक्ति न तस्यमोहो
 

विनिर्गतो निद्रितवत्प्रजल्पः ॥२३२॥
 

 
सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव ।

परमते सत्कपालादिकार्यं घटादि भिन्नमपि सदेवोच्यते । तद्वन्नेत्याह

सन्मात्रमेतत् यथा घटो मृदेव एवं वियदादि ब्रह्मैव न ततोन्यदस्ति ।

तत्तदुपादेयस्य तदुपादानव्यतिरेकेणासत्वात् सर्वोपादानत्वात् ब्रह्मणः

तद्व्यतिरेकेण किमपि नास्तीत्यर्थः । अत एव श्रुतौ मृत्तिकेत्येव सत्यमिति

इतिपदेन योगः। मृण्मयं सर्वं सत्यं चेत् मृत्तिकेत्येव मृत्तिकात्वेन सत्यं

न स्वरूपत इत्यर्थः । एवं मृदः तदुपादानरूपेण तस्याः पंचीकृतभूत-

कार्यत्वात् तद्व्यतिरेकेणाभाव इति तद्रूपेण सत्यत्वं । "यदग्ने रोहितं

रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य, अपागादग्नेरग्नित्वं,

वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यं " इति श्रुत्यनुसारेण

तेषां भूतानां अपंचीकृतभूतरूपेण पृथक्करणे पृथिव्याः अब्रूपेण अपां

तेजोरूपेण तस्य वायुरूपतया तस्य वियत्वेन तस्य सत्वेन इति सद्रूपब्रह्म-

भिन्नतया किमपि सत्यं नास्तीति सन्मात्रमेतदित्युक्तम् । ततोन्यन्नास्तीति

तदेव स्पष्टीकृतम् । एवं स्थितेपि अस्तीति यो वक्ति ब्रह्मभिन्नतया
 
"