This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४१
 
सद्वितीयत्वं रज्वाः । यदि जगदादेः परमार्थत्वं सदा भासेत तदभावात् न

वस्तुत्वं । तदाह सम्यक् परतत्वबोधसुदशायां इति । इदानीं अन्यथा अविद्यया

ज्ञातत्वात् सम्यगिति । यत्र नान्यत्पश्यतीत्यादिश्रुत्या परतत्वविषयक-

सम्यज्ज्ञानं यदा तस्यां शोभनायामवस्थायां । हि यस्मात् अन्यत्किकिंचि

नास्ति अतः स्वभिन्नवस्त्वभावात् इदं सत् परमाद्वैतमित्यन्वयः ॥२२८॥
 

 
अज्ञानावस्थायामपि " तदनन्यत्वमारम्भणशब्दादिभ्यः" इतिन्याय-

निर्णीतं प्रपंचस्य ब्रह्माव्यतिरेकमाह यदिदमित्यादिना ।
 

 
यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।

तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २२९ ॥
 

 
अज्ञानात् नानारूपं सकलं विश्वं यत् इदं प्रतीतं कल्पितं तत्सर्वं

प्रत्यस्ताशेषभावनादोषं अशेषाश्च ताः भावनाश्च अशेषभावनाः तद्रूपः

दोषः प्रत्यस्तः निरस्तः यस्मात् तत् प्रत्यस्ताशेषभावनादोषं सकलकल्पना-

रूपदोषशून्यं ब्रह्मैव ॥२२९॥
 

 
तदुपपादयति मृदित्यादिना सदृष्टान्तम् ॥

 
मृत्कार्यभूतोपि मृदो न भिन्नः कुम्भोस्ति सर्वत्र तु मृत्स्वरूपात् ।

न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः ॥२३०॥
 

 
मृत्कार्यभूतोपि मृदुपादेयोपि कुम्भः मृदो भिन्नो नास्ति सर्वत्र तु मूले

अग्रे पार्श्वयोर्वा सर्वत्रापि मृत्स्वरूपात् मृदभिन्नत्वात् पृथुबुध्नोदराद्याकार-

विशेषविशिष्टा मृदेव कुम्भइत्युच्यते न कुंभरूपं पृथगस्ति मृद्रूपव्यतिरेकेण

कुम्भस्य रूपं नीलादिकं नास्ति मृदाका रव्यतिरेकेण कुम्भस्याथाकारो

नास्ति आकारविशेषविशिष्टा मृदेव कुम्भइत्युच्यते न तु कुम्भस्य

कश्चिदाकारः। "वाचारंभणं विकारो नामधेयं " इतिश्रुत्या मृषाकल्पित -

नाममात्रः कुम्भः। कुतः कस्माद्धेतोः पृथगस्ति मृद्रपभिन्नरूपं नास्ति

मृदाकारव्यतिरिक्ताकारो नास्ति । कुम्भ इति शब्दः परं कल्पितः । तावता

एक एव देवदत्त : संकोचितहस्तपाद: प्रसारितहस्तपादश्च यथा न भिद्यते

तद्वत् कुम्भोपि मृद इत्यर्थः ॥ २३०॥