This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
ब्रह्मभावे भवमोक्षः कथमिति शंकमानं प्रत्याह । ब्रह्मभूत इति ।

 
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः ।

विज्ञातव्यमतः सम्यग् ब्रह्माभिन्नत्वमात्मनः ॥ २२६॥
 

 
ब्रह्मभूतः विद्वान् पुनः संसृत्यै नैवावर्तत इत्यर्थः । "न स पुनरावर्तत"

इतिश्रुतेः । तुरवधारणे । अतः आत्मनः ब्रह्माभिन्नत्वं सम्यक् विज्ञातव्यं
 
॥२२६॥
 
१४०
 

 
प्रपंचमिथ्यात्वकथनेन निष्प्रपंचत्वं ब्रह्मणो वक्तुमारभते । सत्यं
 

ज्ञानमिति ॥
 

 
सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतस्सिद्धं ।

नित्यानन्दैकरसं प्रत्यगभिन्नं निरंतरं जयति ॥ २२७॥
 

 
कालत्रयेपि बाधरहितं स्वयंप्रकाशं देशतः कालतः वस्तुतश्च

परिच्छेदशून्यं व्यापकत्वात् नित्यत्वात् अद्वितीयत्वात् ब्रह्म विशुद्धं

स्वभाविकागन्तुक -सकलमल-शून्यं परं मायातीतं स्वतस्सिद्धं सत्तायां स्फूता
र्तौ
वा परनिरपेक्षं । नित्यानन्दैकरसं दुःखास्पृष्ट-नित्यसुखस्वरूपं जीवाभिन्नं

निर्भेदमखण्डं ब्रह्म सर्वोत्कर्षेण वर्तत इत्यर्थः । इति वस्तूपक्षेपः ॥२२७॥
 

 
तत्र अनन्तपदार्थैकदेशं वस्तुपरिच्छेदशून्यत्वमुपपादयति । सदिद-
मिति ।
 

 
सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।

नह्यन्यदस्ति किंचित् सम्यक्परतत्वबोधसुदशायाम् ॥२२८॥
 

 
इदं प्रकृतं ब्रह्म सत् अस्तीति सत् । परमाद्वैतं परमं च तदद्वैतं च

परमाद्वैतं। अद्वैते परमत्वं गुणगुणिभावादिप्रयुक्त-तादात्म्येनापि शून्यत्वं

सदाप्यस्तीति । विद्यते द्वैतं द्वयोर्भावः द्विता द्वितैव द्वैतं यत्र तत् भेद-

शून्यमित्यर्थः । तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोभावात्

यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतं । उच्चावचप्रपंचस्य बहूनां

जीवानां च सत्वात् कथं स्वस्मादन्यस्याभावः इति चेत् वस्तुपदेन तेषां

परमार्थता नास्तीति ज्ञापितं । कल्पितेन भेदाभावात् । नहि कल्पितसर्पेण