This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
सर्वकर्माणि " इत्यादिस्मृतेः । तत्र हेतु: विरजाः निर्गुणब्रह्मनिष्ठतया

तत्स्वरूपतया च तापहेतुरजश्शून्य: पापपदं पुण्यस्याप्युपलक्षकं तस्यापि

बन्धकत्वेन मुमुक्षोरनिष्टत्वात् अत एव जन्मनिमित्तकर्मशून्यतया विमृत्युः

मृत्युसहितसंसार-रहित इत्यर्थः । स्वरूपच्युतिशून्य इति यावत् । भवतीति

शेषः ।
"प्रमादं वै मृत्युमहं ब्रवीमि " इति सनत्सुजातोक्तेः ॥२२३॥
 

 
अत एव
 

 
विशोक आनन्दघनो विपश्चित्
 

स्वयं कुतश्चिन्न बिभेति कश्चित् ।

नान्योस्ति पन्था भवबन्धमुक्तेः
 

विना स्वतत्वावगमं मुमुक्षोः ॥ २२४॥
 
१३९
 

 
विशोकः निर्दुःखः अत एवानन्दघन: आनन्द एवघनः मूर्तिः यस्य

सः आनन्दघनः निरामयानन्दस्वरूपः इत्यर्थः । विपश्चित् सर्वज्ञ इत्यर्थः

सर्वात्मकब्रह्मवित्वात्, स्वयं कुतश्चित् न विबिभेति द्वितीयाभावात् । अतः

मुमुक्षो: नित्यनिरतिशय-निरामयस्वयंप्रकाश-सुखरूपमोक्षेच्छावत: स्वत-

त्वावगमं विना स्वयाथात्म्यावबोधं विना भवन्धमुक्तेः पन्थाः अन्यः

कश्चित् नास्तीत्यन्वयः ॥२२४॥
 

 
एवं त्वंपदार्थं अवस्थात्रयसाक्षित्वेन पंचकोशविलक्षणत्वेन असंगत्वेन

विशोध्य सप्रपंचत्वेन ज्ञातं तत्पदवाच्यार्थं परिशोध्य तयोरैक्यं सर्वोपनिष

त्
तात्पर्यविषयीभूतं संप्रदायानुसारेण विस्तरेण वक्तुं पातनिकामरचयति ।

ब्रह्मेत्यादिना ।
 

 
ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् ।

येनाद्वितीयमानन्दं ब्रह्म संपद्यते बुधः ॥२२५॥
 

 
ब्रह्माभिन्नत्वविज्ञानं अहंब्रह्मास्मीत्यपरोक्षानुभवः भवमोक्षस्य

संसारमुक्तेः कारणं येन विज्ञानेन अद्वितीयं निर्भेदं आनन्दं सुखस्वरूपं

ब्रह्म बुधः संपद्यते प्राप्नोति भवतीति वा अर्थ: "ब्रह्मविदाप्नोति" "ब्रह्मविद्

ब्रह्मैव भवति " इति श्रुतेः । असतो मा सद् गमय मृत्युर्वा असत् सदमृतं

मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह " इतिश्रुतेः ब्रह्मभाव

एव मोक्षः ॥ २२५ ॥
 
"
 
(6