2023-02-20 14:42:54 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
घटमिति । घटं जलं, तद्गतं घटगतजलगतं अर्कबि सूर्यप्रतिबिंब
सर्वं विहाय । तटस्थितः उदासीन: त्रीनेतान् अतिरिच्य वर्तमानः ।
तत्र हेतुः तत्त्रितयावभासक: घट-तद्गत जलतद्गत
प्रतिबिंबरूप-पदार्थ-
त्रयप्रकाशकः। स्वयंप्रकाशः स्वेतरबहिर्ज्योतिरनवभास्यः यथा अर्कः
सूर्य: दिवि वीक्ष्यते अन्तरिक्षे अवलोक्यते तथा ॥ २२१ ॥
१३८
देहं धियं चित्प्रतिबिंबमेतं
विसृज्य बुद्धौ निहितं गुहायां ।
द्रष्टारमात्मानमखण्डबोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥
नित्यं विभुं सर्वगतं सुसूक्ष्मं
अन्तर्बहिश्शून्यमनन्यमात्मनः ।
विज्ञाय सम्यनिजरूपमेतत्
पुमान्विपाप्मा विरजा विमृत्युः ॥ २२३ ॥
देहमिति । देहं घटवदवस्थितं स्थूलदेहं धियं स्वच्छतया सूक्ष्मतया
च जलवत्तदन्तर्गतां बुद्धि, गुहायां आवारकत्वेन अनेकानर्थसंकुलायां गुहा-
सदृश्यां बुद्धौ निहितं च एतं भ्रन्त्या अहमिति प्रतीयमानं चित्प्रतिबिंबं
विसृज्य त्यक्त्वा । पूर्ववत् तटस्थितं तत्त्रितयावभासकं दष्टारं सर्व-
• साक्षिणं आत्मानं सर्वान्तरं । अखण्डबोधं अपरिच्छिन्नज्ञानस्वरूपं अत
एव सर्वप्रकाशं सर्वस्य प्रकाशः यस्मात् तं । सदसद्विलक्षणं सत् प्रत्यक्षं
तेजः आपः अन्नं च। असदप्रत्यक्षं वायुराकाशं च । एद्विलक्षणं तद्भिन्नं
व्यक्ताव्यक्तभिन्नमिति वा अर्थः । नित्यं कालपरिच्छेदशून्यं विभुं देश-
परिच्छेदशून्यं सर्वगतं सर्वोपादानतया अन्वयिनं । अथापि सुसूक्ष्मं
रूपादिरहिततया दुर्जेयम् "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते "
इतिश्रुतेः । अन्तर्बहिश्शून्यं "अनन्तरमबाह्यमिति " श्रुतेः । आत्मनः अनन्यं
न अन्यः अनन्यः आत्मनः ब्रह्मणः भेदरहितं "अयमात्मा ब्रह्मेति" श्रुतेः
पूर्वोक्तयुक्तेश्च । यद्वा अनन्यं न विद्यते अन्यः यस्मात् सः अनन्यः अद्वितीय
इत्यर्थः तम् । आत्मनः निजरूपं वास्तविकस्वरूपं विज्ञाय एतत् । पुमान्
पूर्वमन्यथा ज्ञातवान् एष एव पुमान् विपाप्मा विगतपापः ज्ञानाग्निः
(1