This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१३७
 
देहान्तान् कोशान् नानाकार - विकारभाजिनः नानाविधा ये आकाराः

अवयव-संस्थानविशेषाः ते च विकाराः जन्मस्थिति विपरिणामवृद्ध्द्य-पक्षय

नाशरूपा ये नाना बहवः विकाराः तान् भजन्त इति नानाकारविकार-

भाजिनः तान्, अहंकारस्याप्यन्तःकरणपदवाच्यस्य देहाद्याकारेण परिणम
-
मानत्वात् नानाकारत्वं बोध्यं । इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन् ।

जाग्रत्स्वप्नसुषुप्तिषु सकलप्राणिसिद्धासु तिसृष्वप्यवस्थासु, स्फुटतरं

अतिस्फुटं योसौ अविवेकिनः विप्रकर्षाददश्शब्दप्रयोगः । समुज्जृम्भते

परनिरपेक्षं भासते । नित्यानन्दचिदात्मना स्वयंप्रकाशनित्यानन्दस्वरूपेण

हृदि स्फुरति तमेतं अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं

स्वं स्वात्मानं विद्धि जानीहि ॥ २१९ ॥
 

 
एवं सर्वसाक्षितया स्फुटस्य कुतस्तथा विविक्ततया अग्रहणमिति

शंकायां मौढ्यमेव मूलमिति सदृष्टान्तमाह । घटोदक इति ।

 
घटोदके बिंबिबितमर्कबिबिंबम्
 

आलोक्यमूढो रविमेव मन्यते ।

तथा चिदाभासमुपाधि-संस्
 
थं
भ्रान्त्याहमित्येव जडोभिमन्यते ॥२२० ॥
 

 
मूढः घटोदके घटान्तर्वर्तिजले बिंबितं प्रतीयमानं अर्कबिंबं सूर्यमण्डलं

प्रतिबिंब आलोक्य दृष्ट्वा रविमेव मन्यते । न तस्य तत्र सूर्यः भिन्नः

अयंतु तत्प्रतिबिंब इति ज्ञानं, तथा उपाधिसंस्थं उपाधिषु बुद्ध्द्यादिषु

प्रतीयमानं चिदाभासं चित्प्रतिबिंबं भ्रान्त्या अविवेकेन अहमित्येव

अभिमन्यते भ्राम्यति विपरीतं प्रतिपद्यते इत्यर्थः ॥ २२०॥
 

 
वस्तुतस्तु
 

 
घटं जलं तद्गतमर्कबिं
 
बं
विहाय सर्वं दिवि वीक्ष्यतेर्कः ।

तटस्थितस्तत्त्रितयावभासकः
 

स्वयंप्रकाशो विदुषो यथा तथा ॥ २२१॥
 
F