This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१३७
 
देहान्तान् कोशान् नानाकार - विकारभाजिनः नानाविधा ये आकाराः
अवयव-संस्थानविशेषाः ते च विकाराः जन्मस्थिति विपरिणामवृध्द्य-पक्षय
नाशरूपा ये नाना बहवः विकाराः तान् भजन्त इति नानाकारविकार-
भाजिनः तान्, अहंकारस्याप्यन्तःकरणपदवाच्यस्य देहाद्याकारेण परिणम
मानत्वात् नानाकारत्वं बोध्यं । इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन् ।
जाग्रत्स्वप्नसुषुप्तिषु सकलप्राणिसिद्धासु तिसृष्वप्यवस्थासु, स्फुटतरं
अतिस्फुटं योसौ अविवेकिनः विप्रकर्षाददश्शब्दप्रयोगः । समुज्जृम्भते
परनिरपेक्षं भासते । नित्यानन्दचिदात्मना स्वयंप्रकाशनित्यानन्दस्वरूपेण
हृदि स्फुरति तमेतं अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं
स्वं स्वात्मानं विद्धि जानीहि ॥ २१९ ॥
 
एवं सर्वसाक्षितया स्फुटस्य कुतस्तथा विविक्ततया अग्रहणमिति
शंकायां मौढ्यमेव मूलमिति सदृष्टान्तमाह । घटोदक इति ।
घटोदके बिबितमर्कबिबम्
 
आलोक्यमूढो रविमेव मन्यते ।
तथा चिदाभासमुपाधि-संस्थ
 
भ्रान्त्याहमित्येव जडोभिमन्यते ॥२२० ॥
 
मूढः घटोदके घटान्तर्वतिजले बिंबितं प्रतीयमानं अर्कबिंब सूर्यमण्डलं
प्रतिबिंब आलोक्य दृष्ट्वा रविमेव मन्यते । न तस्य तत्र सूर्यः भिन्नः
अयंतु तत्प्रतिबिंब इति ज्ञानं, तथा उपाधिसंस्थं उपाधिषु बुध्द्यादिषु
प्रतीयमानं चिदाभासं चित्प्रतिबिंबं भ्रान्त्या अविवेकेन अहमित्येव
अभिमन्यते भ्राम्यति विपरीतं प्रतिपद्यते इत्यर्थः ॥ २२०॥
 
वस्तुतस्तु
 
घटं जलं तद्गतमर्कबिंब
 
विहाय सर्वं दिवि वीक्ष्यतेर्कः ।
तटस्थितस्तत्त्रितयावभासकः
 
स्वयंप्रकाशो विदुषो यथा तथा ॥ २२१॥
 
F