This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
तदेवोपपादयति स्फुटतया ज्ञानाय । तत्साक्षिकमिति ।
तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते ।
 
कस्याप्यननुभूतार्थे साक्षित्वं नोपपद्यते ॥२१७॥
 
यद्यत् येनानुभुयते अनुभवविषयीक्रियते तत्तत् सः साक्षी यस्य
तत् तत्साक्षिकं भवेत् । त्वया सर्वाभावं विना किचिन्नपश्यामीत्युक्तत्वात्
सर्वाभावं त्वं पश्यसीति सिद्धं भवति । त्वया दृष्टः सः अभावः त्वत्साक्षिक
इति तत्साक्षी त्वं आत्मेति भावः तत्र हेतुमाह अननुभूतार्थे स्वकीयानुभवा-
विषये अर्थे कस्यापि पुरुषस्य साक्षित्वं नोपपद्यते अकर्तृत्वे सति बोद्धुत्वस्यैव
साक्षित्वात् ॥ २१७ । सामान्यत उक्त्वा प्रकृते त्वाह । असाविति ।
 
असौ स्वसाक्षिको भावो यतस्स्वेनानुभूयते ।
 
अतः परं स्वयं साक्षात् प्रत्यगात्मा नचेतरः ॥२१८॥
 
असौ अहमादिसर्वविकाराणां अभावः स्वसाक्षिकः । स्वं स्वयं
साक्षी यस्य सः स्वसाक्षिकः । तत्र हेतुः यतः यस्मात्कारणात् स्वेन पंचानां
कोशानां निषेधेपि अवशिष्टेन स्वेन अनुभूयते । तत्र सर्वाभावं विना
किंचिन्नपश्यामीत्युक्तिरेव मानं सर्वाभाव विना किंचिन्नपश्यामीत्युक्तो
सर्वाभावं पश्यामीत्युक्तमेव भवति इति तस्याभावस्य दर्शनविषयत्वं,
तव द्रष्टृत्वं अतः प्रत्यगात्मा स्वयं साक्षात् नित्यापरोक्षं "यत्साक्षादपरोक्षाद्
ब्रह्म " इति श्रुतेः परं सर्वोत्कृष्टं ब्रह्मैव इतरो न च ब्रह्मभिन्नं नैवेत्यर्थः ॥
॥२१८॥
 
उक्तमर्थं स्पष्टं विस्तरेण कथयति । जाग्रदिति ।
 
जाग्रत्स्वप्न- सुषुप्तिषु स्फुटतरं यासौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यंतः स्फुरन्नेकधा ।
नानाकारविकार-भाजिन इमान् पश्यन्नहंधीमुखान्
• नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१९ ॥
 
प्रत्यग्रूपतया सर्वान्तरत पर सदा एकधा एकरूपेण अहमहमिति
अनिदन्तया स्फुरन् स्वयं प्रकाशमानः अहंधीमुखान् अहंकारप्रमुखान्