This page has been fully proofread once and needs a second look.

१०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
चित्तस्य शुद्धये कर्म नतु वस्तूपलब्धये ।
 

वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ॥ ११॥
 

 
स्पष्टोर्थः ।
 

 
विचारस्य वस्तूपलब्धिहेतुत्वं दृष्टान्तेन विशदयति सम्यगिति

 
सम्यग्विचारतः सिद्धा रज्जुतत्वावधारणा ।

भ्रान्त्योदित-महासर्प-भवदुःखविनाशिनी ॥१२॥
 
1
 

 
मन्दांधकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभ्यत् दीपानयनेन

सम्यग्विचार्य वस्तुतत्वं बुध्वा भयकम्पादि-दुःखं जहातीति प्रसिद्धम् ।

तत्र रज्वां <error>भ्रन्त्या<error><fix>भ्रान्त्या</fix> उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यद्दुःखं,

तद्विनाशिनी सम्यग्विचारजन्या रज्जुतत्वावधृतिः । तद्वत् भ्रान्त्या जातं

यद्भवदुःखं जन्ममरणप्रयोज्यदु:खं, तद्विनाशिनी सम्यग्विचार प्रयोज्या

तत्वावधारणा आत्मयाथात्म्यावधृतिः ब्रह्मसाक्षात्कारः इति सर्वांशे

प्रकृतोपयोग्ययं दृष्टान्तः ॥१२॥
 

 
आप्तोक्त्यनुसारेण क्रियमाणविचारस्यैव
नान्यस्य कर्मण इत्याह । अर्थस्येति ।
 
क्रियमाणविचारस्यैव
अर्थनिश्चयहेतुत्वम्
 

नान्यस्य कर्मण इत्याह । अर्थस्येति ।
 
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तित: ।

न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥

 
अज्ञानदोषवशात् स्वयंभ्रान्तस्य पुरुषस्य आप्तोक्तिरूपावलंबनाभावे

भयकंपाद्यनर्थमनुभवतः स्वतो विचारे प्रवृत्तेर्दुर्लभत्वात् विचारे हितोक्ति-

र्
हेतुकृता । हितत्वं च यथार्थवक्तृत्वं, यदि भ्रान्तः पुरुषः हितोक्त्यनुसारेण

विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रम-

निवर्तकापरोक्षप्रमाया अभावे, अनर्थप्रयोजक -भ्रमानिवृत्तेः कथं निवृत्ता-

नर्थो भवेदिति भावः । विचारश्च अर्थयाथात्म्य - निश्चयानुकूलो मानसो

व्यापारः । तथा च हितोक्तिसहकृत- विचारस्यैव अर्थप्रमाहेतुत्वं भ्रमस्थले

प्रत्यक्षसिद्धम् । तथासति प्रकृतेपि श्रुत्याचार्योपदेशानुसारेण आत्मविचारं

कृत्वा तद्याथांथात्म्य-मपरोक्षीकृत्य अनात्माध्यासरूप-संसारादात्मानं मोचये-

दित्युपदेशः ॥१३॥