This page has not been fully proofread.

१०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
चित्तस्य शुद्धये कर्म नतु वस्तूपलब्धये ।
 
वस्तुसिद्धिविचारेण न किंचित्कर्मकोटिभिः ॥ ११॥
 
स्पष्टोर्थः ।
 
विचारस्य वस्तूपलब्धिहेतुत्वं दृष्टान्तेन विशदयति सम्यगिति
सम्यग्विचारतः सिद्धा रज्जुतत्वावधारणा ।
भ्रान्त्योदित-महासर्प-भवदुःखविनाशिनी ॥१२॥
 
1
 
मन्दांधकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभ्यत् दीपानयनेन
सम्यग्विचार्य वस्तुतत्वं बुध्वा भयकम्पादि-दुःखं जहातीति प्रसिद्धम् ।
तत्र रज्वां भ्रन्त्या उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यदुःखं,
तद्विनाशिनी सम्यग्विचारजन्या रज्जुतत्वावधृतिः । तद्वत् भ्रान्त्या जातं
यद्भवदुःखं जन्ममरणप्रयोज्यदु:खं, तद्विनाशिनी सम्यग्विचार प्रयोज्या
तत्वावधारणा आत्मयाथात्म्यावधृतिः ब्रह्मसाक्षात्कारः इति सर्वांशे
प्रकृतोपयोग्ययं दृष्टान्तः ॥१२॥
 
आप्तोक्त्यनुसारेण क्रियमाणविचारस्यैव
नान्यस्य कर्मण इत्याह । अर्थस्येति ।
 
क्रियमाणविचारस्यैव अर्थनिश्चयहेतुत्वम्
 
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तित: ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥
अज्ञानदोषवशात् स्वयंभ्रान्तस्य पुरुषस्य आप्तोक्तिरूपावलंबनाभावे
भयकंपाद्यनर्थमनुभवतः स्वतो विचारे प्रवृत्तेर्दुर्लभत्वात् विचारे हितोक्ति-
हेतुकृता । हितत्वं च यथार्थवक्तृत्वं, यदि भ्रान्तः पुरुषः हितोक्त्यनुसारेण
विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रम-
निवर्तकापरोक्षप्रमाया अभावे, अनर्थप्रयोजक भ्रमानिवृत्तेः कथं निवृत्ता-
नर्थो भवेदिति भावः । विचारश्च अर्थयाथात्म्य - निश्चयानुकूलो मानसो
व्यापारः । तथा च हितोक्तिसहकृत- विचारस्यैव अर्थप्रमाहेतुत्वं भ्रमस्थले
प्रत्यक्षसिद्धम् । तथासति प्रकृतेपि श्रुत्याचार्योपदेशानुसारेण आत्मविचारं
कृत्वा तद्याथांत्म्य-मपरोक्षीकृत्य अनात्माध्यासरूप-संसारादात्मानं मोचये-
दित्युपदेशः ॥१३॥