This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१३५
 
प्रत्ययलंबन: । अवस्थात्रय साक्षी सन् पंचकोशविलक्षणः" इत्यादिना

उपक्रान्तः एतावता कोशपंचकनिषेधेन तद्विलक्षणतया उपपादित: जाग्रदादि-

साक्षी अबाध्यः विकारशून्य: निर्लेपः सदा आनन्दस्वरूपः सः विपश्चिता

विवेककुशलेन स्वात्मत्वेन स्वस्वरूपतया विज्ञेयः येष्वात्मत्वं कल्पितं

तेषां निरासे कृते तदधिष्ठानं "ब्रह्मपुच्छं प्रतिष्ठेति" श्रुत्या बोध्यमानं

परं ब्रह्मैव वास्तवस्वरूपं । अत एवोक्तं श्रुत्या असन्नेव स भवति, असद्-

ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति इति ।

ब्रह्मणः स्वस्वरूपत्वे तदसदिति वेद चेत् स्वस्यासत्वं तस्यान्यत्वे स्वेनात्मत्वेन

ज्ञातानां कोशानां निरासे नैरात्म्यमेव प्रसज्येत इत्यर्थः ॥ २१३॥
 
77
 

 
शिष्य उवाच ।
 

 
मिथ्यात्वेन निषिद्धेषु काशेष्वेतेषु पंचसु ।

सर्वाभावं विना किंचित् न पश्याम्यत्र हे गुरो ।

विज्ञेयं किम वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥

 
स्पष्टोर्थः ॥२१४॥
 

 
श्रीगुरुरुवाच ।
 

 
सत्यमुक्तं त्वया विद्वन् निपुणोसि विचारणे ।

अहह्मादिविकारास्ते तदभावोयमप्यथ ॥ २१५ ॥

 
सर्वे येनानुभूयंते यस्स्वयं नानुभूयते ।
 

तमात्मानं वेदितारं विद्धि बुद्ध्धाया सुसूक्ष्मया ॥ २१६॥
 

 
हे विद्वन् त्वया सत्यमुक्तं यथाज्ञातं कथितं । विचारणे निपुणोसि

पूर्वमुच्चावचतया प्रतीतस्य सर्वस्यापि यथा नभानं तथा विचारस्य

कृतत्वात् इति श्लाघया तद्बुद्धिमुल्लास्य वक्तव्यं सूक्ष्ममाह अहमादीति ।

ते पूर्वमनुभूताः अहह्मादिविकाराः अथ इदानीं अयं तदभावोपि पूर्व-

प्रतीतानां सर्वेषां अभावोपि । एते सर्वे येनानुभूयंते पूर्वमनुभूताः तादात्म्येन

इदानीं पृथक्तया तदभावो वा अनुभूयते । यः स्वयं नानुभूयते तं वेदितारं

सर्वसाक्षिणं सुसूक्ष्मया बुद्ध्द्या एकाग्रया अनन्यविषयकया बुद्ध्या आत्मानं

<error>
वद्धि </error><fix>विद्धि</fix>जानीहि ॥ २१६॥