2023-02-20 14:42:53 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
१३५
प्रत्ययलंबन: । अवस्थात्रय साक्षी सन् पंचकोशविलक्षणः इत्यादिना
उपक्रान्तः एतावता कोशपंचकनिषेधेन तद्विलक्षणतया उपपादित: जाग्रदादि-
साक्षी अबाध्यः विकारशून्य: निर्लेपः सदा आनन्दस्वरूपः सः विपश्चिता
विवेककुशलेन स्वात्मत्वेन स्वस्वरूपतया विज्ञेयः येष्वात्मत्वं कल्पितं
तेषां निरासे कृते तदधिष्ठानं "ब्रह्मपुच्छं प्रतिष्ठेति" श्रुत्या बोध्यमानं
परं ब्रह्मैव वास्तवस्वरूपं । अत एवोक्तं श्रुत्या असन्नेव स भवति, असद्-
ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति इति ।
ब्रह्मणः स्वस्वरूपत्वे तदसदिति वेद चेत् स्वस्यासत्वं तस्यान्यत्वे स्वेनात्मत्वेन
ज्ञातानां कोशानां निरासे नैरात्म्यमेव प्रसज्येत इत्यर्थः ॥ २१३॥
77
शिष्य उवाच ।
मिथ्यात्वेन निषिद्धेष काशेष्वेतेषु पंचसु ।
सर्वाभावं विना किंचित् न पश्याम्यत्र हे गुरो ।
विज्ञेयं किम वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥
स्पष्टोर्थः ॥२१४॥
श्रीगुरुरुवाच ।
सत्यमुक्तं त्वया विद्वन् निपुणोसि विचारणे ।
अहह्मादिविकारास्ते तदभावोयमप्यथ ॥ २१५ ॥
सर्वे येनानुभूयंते यस्स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुध्धा सुसूक्ष्मया ॥ २१६॥
हे विद्वन् त्वया सत्यमुक्तं यथाज्ञातं कथितं । विचारणे निपुणोसि
पूर्वमुच्चावचतया प्रतीतस्य सर्वस्यापि यथा नभानं तथा विचारस्य
कृतत्वात् इति श्लाघया तद्बुद्धिमुल्लास्य वक्तव्यं सूक्ष्ममाह अहमादीति ।
ते पूर्वमनुभूताः अहह्मादिविकाराः अथ इदानीं अयं तदभावोपि पूर्व-
प्रतीतानां सर्वेषां अभावोपि । एते सर्वे येनानुभूयते पूर्वमनुभूताः तादात्म्येन
इदानीं पृथक्तया तदभावो वा अनुभूयते । यः स्वयं नानुभूयते तं वेदितारं
सर्वसाक्षिणं सुसूक्ष्मया बुध्द्या एकाग्रया अनन्यविषयकया बुध्या आत्मानं
वद्धि जानीहि ॥ २१६॥