This page has been fully proofread once and needs a second look.

१३४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तस्याप्यनात्मत्वं वदति । नैवेति ।
 

 
नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् ।

कार्यत्वहेतोः सुकृतक्रियाया विकारसंघात -समाहितत्वात् ॥ २१
 
"
 

 
अयमानन्दमयः परात्मा मुख्यात्मा नैव । तत्र हेतवः सोपाधिकत्वात्

सनिमित्तत्वात् इत्यर्थः इष्टसंदर्शनादिजन्यत्वात् प्रकृतेः मूलप्रकृते-

रविद्याया विकारात् विकारत्वात् इत्यर्थः तमोजुंभितवृत्तेः तथात्वात् ।

सुकृतक्रियायाः पुण्यकर्मणः कार्यत्वहेतोः कार्यत्वात् । '"पुण्यस्यानुभवे

विभाति" इत्युक्ततया सुखाकाराविद्यावृत्तेरपि जागरस्वप्नकालिकायाः

पुण्यजन्यत्वात् ।
विकारसंघात-समाहितत्वात् प्रियादिगुणक इत्यनेन

"
तस्य प्रियमेव शिरः " इत्यादिश्रुत्या दर्शन-लाभभोग-जन्य-सुखरूपावयव

समुदायसंजनितत्वात् । पुण्यवशात् इष्टार्थदर्शने लाभे च तमोमिश्रसत्वोद्भवे

जायमाना वृत्तिः सुखाकारा अहं सुखीतिरूपा एवं भोगे "कोन्योस्ति

सदृशोमया यक्ष्ये दास्यामि मोदिष्ये" इत्यादिरूपा उत्कृष्यमाणा तस्याः

पुण्येष्टविषयादिविकारजन्यत्वादिति वा अर्थः ॥ २११॥
 
पुण्यजन्यत्वात् ।
 
""
 

 
कोशपंचक-विवेकानन्तर- कृत्यमाह । पंचानामिति ।

 
पंचानामपि कोशानां निषेधे युक्तितः कृते ।

तन्निषेधावधिः साक्षी बोधरूपोवशिष्यते ॥ २१२ ॥
 

 
पंचानामपि कोशानां निषेधे प्रतिकोशं नायमात्मा इति निषेधे

निराकरणे सति, तन्निषेधावधिः तद्बाधाधिष्ठानभूतः साक्षी यत्पर्यन्तं

निषेधः सः अवधिः सीमा इति यावत् । साक्षी साक्षित्वोपलक्षितः ।

बोधरूपः केवलनिर्विषयज्ञानस्वरूप: अवशिष्यते ॥ २१२ ॥
 

 
स एव मुख्यात्मेति ज्ञेय इत्याह । योयमिति ।

 
योयमात्मा स्वयंज्योति: पंचकोशविलक्षणः ।

अवस्थात्रयसाक्षी सन्निविकारो निरंजनः ।

सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ॥
 

 
यः अवशिष्यते अयमात्मा इति पूर्वश्लोकेन संबन्धः । उपक्रमैक-
त्रा

वा
क्यतया परमात्मनिरूपणमुपसंहरति । "अस्ति कश्चित्स्वयं नित्यं अहं-
(6