This page has not been fully proofread.

१३४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तस्याप्यनात्मत्वं वदति । नैवेति ।
 
नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेविकारात् ।
कार्यत्वहेतोः सुकृतक्रियाया विकारसंघात समाहितत्वात् ॥ २१ ॥
 
"
 
अयमानन्दमयः परात्मा मुख्यात्मा नैव । तत्र हेतवः सोपाधिकत्वात्
सनिमित्तत्वात् इत्यर्थः इष्टसंदर्शनादिजन्यत्वात् प्रकृतेः मूलप्रकृते-
रविद्याया विकारात् विकारत्वात् इत्यर्थः तमोजुंभितवृत्तेः तथात्वात् ।
सुकृतक्रियायाः पुण्यकर्मणः कार्यत्वहेतोः कार्यत्वात् । 'पुण्यस्यानुभवे
विभाति इत्युक्ततया सुखाकाराविद्यावृत्तेरपि जागरस्वप्नकालिकायाः
विकारसंघात-समाहितत्वात् प्रियादिगुणक इत्यनेन
तस्य प्रियमेव शिरः " इत्यादिश्रुत्या दर्शन-लाभभोग-जन्य-सुखरूपावयव
समुदायसंजनितत्वात् । पुण्यवशात् इष्टार्थदर्शने लाभे च तमोमिश्रसत्वोद्भवे
जायमाना वृत्तिः सुखाकारा अहं सुखीतिरूपा एवं भोगे "कोन्योस्ति
सदृशोमया यक्ष्ये दास्यामि मोदिष्ये इत्यादिरूपा उत्कृष्यमाणा तस्याः
पुण्येष्टविषयादिविकारजन्यत्वादिति वा अर्थः ॥ २११॥
 
पुण्यजन्यत्वात् ।
 
""
 
कोशपंचक-विवेकानन्तर- कृत्यमाह । पंचानामिति ।
पंचानामपि कोशानां निषेधे युक्तितः कृते ।
तन्निषेधावधिः साक्षी बोधरूपोवशिष्यते ॥ २१२ ॥
 
पंचानामपि कोशानां निषेधे प्रतिकोशं नायमात्मा इति निषेधे
निराकरणे सति, तन्निषेधावधिः तद्बाधाधिष्ठानभूतः साक्षी यत्पर्यन्तं
निषेधः सः अवधिः सीमा इति यावत् । साक्षी साक्षित्वोपलक्षितः ।
बोधरूपः केवलनिविषयज्ञानस्वरूप: अवशिष्यते ॥ २१२ ॥
 
स एव मुख्यात्मेति ज्ञेय इत्याह । योयमिति ।
योयमात्मा स्वयंज्योति: पंचकोशविलक्षणः ।
अवस्थात्रयसाक्षी सन्निविकारो निरंजनः ।
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ॥
 
यः अवशिष्यते अयमात्मा इति पूर्वश्लोकेन संबन्धः । उपक्रमैक-
त्राक्यतया परमात्मनिरूपणमुपसंहरति अस्ति कश्चित्स्वयं नित्यं अहं-
(6