This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१३३
 
धीमतां पुण्यस्य प्राक्कृतस्य फलोन्मुखस्य अनुभवे फलानुभवकाले विभाति

विशेषेण भाति । तमेवार्थं स्पष्टयति यत्र यस्मिन्काले तनुभृन्मात्रः सर्वोपि

शरीरीप्रयत्नं विना तात्कालिक -प्रयत्नं विना इत्यर्थ: पुण्यस्यानुभवे

इति पूर्वप्रयत्नस्य हेतूकृतत्वात् । स्वयमानन्दरूपः भूत्वा यदा आनन्दरूपः

भूत्वा साधु नन्दति तदा आनन्दमयकोशेन योग: अवगन्तव्य इति भावः ।

वक्ष्यति च "देहप्राणेन्द्रियमनो-बुद्ध्द्यादिभिरुपाधिभिः । यैर्यैर्वृत्तेस्समा-

योगः तत्तद्भात्रोवोस्य योगिन: " इति । तथा च पुण्यवशात् सुखाकारा

जाग्रत्स्वप्नयोः संभवन्ती तामसी वृत्तिः आनन्दमयकोशः इत्युक्तं भवति ।

तस्यापि स्वरूपावरकत्वमस्त्येव । न हि तद्योगे निरामयं सुखं नित्यं निरु-

पाधिकं सुज्ञानं । अत एव "न प्रहृष्येत्प्रियं प्राप्य " "आत्मानं हर्ष-
"
 
(6
 
"
 
"
 

शोकाभ्यां शत्रुभ्यामिव नार्पयेत् " "हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति
"
"
हर्षामर्षभयोद्वेगै: मुक्तो यस्स च मेप्रियः " इत्यादिप्रमाणैः हेयत्वं तस्य ।

अत्र पुण्यशब्देन काम्यकर्मजन्यमपूर्वं ग्राह्यं " मुक्तिनोंर्नो शतकोटिजन्मसु

कृतैः पुण्यैर्विना लभ्यते " इति "कर्म अशुक्लाकृष्णं योगिनः त्रिविध

मितरेषाम्" इति "वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि । अदृष्टाद्वा

सकृदभ्यास-संस्कारसचिवाद्भवेत्" इत्यादिना योगज-पुण्यस्य ज्ञानद्वारा

अनावृतानन्दाभिव्यंजकत्वं आनन्दावरकतमोभंजकत्वं इति तादृशानन्दस्य

कोशत्वाभावात् तदा तमोजृम्भितत्वाभावात् वृत्तेरिति बोध्यम् ॥ २०९ ॥
 
#C
 
"
 

 
तामसी सुखाकारवृत्तिः आनन्दमयकोश इतिकृत्वा सुषुप्तौ तस्य

उत्कटत्वं दर्शयति तदानीं पुण्याजन्यस्य स्वरूपसुखस्यैव अविद्यावृत्ति-

विषयत्वात् प्रत्यहं आरब्धपुण्यक्षय एव दैनंदिनप्रलयरूप-सुषुप्तिसंभवात्

उक्तं हि सूत्रभाष्ये "अदृष्टमपि भोगप्रसिध्यर्थं न प्रलयप्रसिध्यर्थमिति " ।
 
"
 

 
आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।

स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥ २१०॥
 

 
उत्कटा अधिका स्फूर्तिः स्फुरणं सुषुप्तौ आनन्दमयकोशस्य, तदा

सुखस्य दुःखासंभिन्नत्वादिति भावः । तथाप्यज्ञानेनावृतत्वात् न मुख्यानन्द-

रूपत्वं। स्वप्नजागरयोः ईषत् स्वल्पा स्फूर्ति: इष्टसंदर्शनादिना आदिपदेन

लाभभोगपरिग्रहः । तदा भिन्नविषयकवृत्तिभिः अस्या वृत्तेः नाश्यमानत्वात्

सुषुप्तौ वृत्यंतराभावात् उत्कटत्वमिति भावः ॥२१०॥