This page has not been fully proofread.

१३२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
अतः वक्ष्यमाणहेतुभ्यः विकारित्व-जडत्व परिच्छिन्नत्व-दृश्यत्व-
व्यभिचारित्व-रूपेभ्यः विज्ञानमयशब्दभाक् विज्ञानमय इति शब्दं भजत
इति विज्ञानमयशब्दभाक् अयं कोशः परात्मा मुख्यात्मानं स्यात्
मरुतोयवत् आभासमात्र सत्ताश्रयत्वतः दृष्टनष्टस्वरूपत्वात् । नित्यो
नित्यानां " इत्यादिश्रुतेः, "नित्यत्वाच्च ताभ्यः" इति सूत्रेण
नित्यमुक्त्यन्वयित्वयुक्त्या च नित्य आत्मा विकारित्वादिहेतुभिः
 
अनित्यः विज्ञानमयकोश: नेष्यते । विज्ञानमयकोश: आत्मभिन्नः विकारि-
त्वात् जडत्वात् परिच्छिन्नत्वात् दृश्यत्वात् व्यभिचारित्वात् स्थूलदेहवत्
इतिप्रयोगः । हेतुवाहुल्यं अनात्मत्वदायर्थम् । एतावत्सु हेतुषु सत्स्वपि
तत्र मोहादात्मत्वं कल्पितमिति पौनः पौन्येन बहुविधतया अनात्मत्वं
द्रढनीयमिति वैभवम् । तत्र विकारित्वं जन्मनाशवत्वं, जडत्वं अस्व-
प्रकाशत्वं, परिच्छिन्नत्वं असर्वगतत्वं, दृश्यत्वं चिद्विषयत्वं, व्यभिचारित्वं
अभावप्रतियोगित्वं इति भेदः ॥ २०८ ॥
 
इदानीं आनन्दमयकोशं निरूपयति । आनन्देति ।
आनन्दप्रतिबिम्ब-चुम्बिततनुः वृत्तिस्तमोजृम्भिता
स्यादानन्दमयः प्रियादिगुणक: स्वेष्टार्थलाभोदयः ।
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
 
भूत्वानन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥२०९॥
 
(6
 
आनन्दस्य परमात्मस्वरूपानन्दस्य प्रतिबिंब: प्रतिफलनं तेन चुंविता
व्याप्ता तनुः शरीरं स्वरूपं यस्याः वृत्तेः सा आनन्दप्रतिबिंव-चुम्विततनुः,
तमोजृंभिता तमसा अविद्यया जृम्भिता जनिता अविद्यापरिणामरूपा वृत्तिः
आनन्दमयकोशः स्यात् । स्फुटतया तं बुद्धावारोहयति प्रियादिगुणक
इति । " तस्य प्रियमेव शिरः मोदो दक्षिण: पक्षः, प्रमोद उत्तरः पक्षः, आनन्द
आत्मा, ब्रह्म पुच्छं प्रतिष्ठा " इतिश्रुत्या इष्टवस्तु-दर्शन-लाभ-भोगजन्य-
सुखविशेषावयवकः प्रियादिः प्रमोदान्तः गुणः अवयवः यस्य स इति विग्रहः ।
तस्य कादाचित्कत्वमाह स्वेष्टेति । स्वस्य इष्ट : स्वेष्ट: स चासावर्थश्च
स्वेष्टार्थः पुत्रमित्रादिः शब्दादिर्वा तस्य लाभे, लाभ इत्युपलक्षणं दर्शन-
भोगयोः । तदा उदयः उत्पत्तिः यस्य सः कोश: स्वेष्टार्थलाभोदयः । कृतिनां