2023-06-02 07:20:55 by jayusudindra
This page has been fully proofread once and needs a second look.
पंकमस्यास्तीति पंकवत् पंकिलं जलं अस्पष्टं विजातीयेन पार्थिवेन
पंकेन मिश्रितत्वात्। पंकापाये पंकस्यापाये तत उद्धृत्यापनयने जलं
स्फुटं इतरामिश्रं शुद्धं यथा भाति तथा आत्मापि परमात्मापि दोषाभावे
स्फुटप्रभः स्फुटा प्रभा प्रकृष्टा भा प्रभा अखण्डचैतन्यप्रकाशः यस्य सः
स्फुटप्रभः " सलिल एको द्रष्टा" इत्यादिश्रुतेः निर्मलजलवत् अनात्मा-
विषयकतया भासत इत्यर्थः ॥ २०६॥
तदेव स्फुटयन् अनात्माविषयकतया भानार्थं प्रयतितव्यमित्याह ।
असन्निवृत्ताविति ।
असन्निवृत्तौ तु सदात्मनः स्फुटप्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एवासदात्मनः साध्वहमादिवस्तुनः ॥२०७॥
यतः एतस्य समीपतरवर्तिनः प्रतीचः सर्वान्तरस्य सदात्मनः काल-
त्रयेप्यबाध्यस्य आत्मनः परमात्मनः स्फुटप्रतीति: इतरामिश्रणेन भानं
असन्निवृत्तौ तु असतां अन्नमयादीनां अनात्मनां निवृत्तौ तु निवृत्तावेव
भवेत् नतु तेषामपि प्रतीयमानत्वे । ततः तस्मात् कारणात् असदात्मनः
असन् मिथ्या आत्मा स्वरूपं यस्य सः असदात्मा तस्य अहमादिवस्तुनः
अहं अहंकारः आदिर्यस्य तदहमादि तच्च तद्वस्तु अहमादिवस्तु तस्य
अहंकारादिदेहान्तस्य आत्मत्वेन भ्रमविषयतया स्वरूपावरकस्य साधु यथा
इतः परं अहंतास्पदतया न प्रतीयते तथा निरासः प्रतिकोशं नायमात्मेति
दृढतमविवेचनेन निरासः बाधः करणीय एव । उक्तं हि पूर्वं "पंचानामपि
कोशानां अपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः
स्वयंज्योतिः " इति। सर्वथा मुच्यतामयं जनः इति बहुप्रकारैः उपदिशति
करुणानिधिः श्रीगुरुः । तत्र शैवालावृतजलं दृष्टान्ततया कथितं । अत्र
विजातीयपंकमिश्रं तत् सर्वप्रकारैः अनात्मभेदस्य प्रतीचि सिध्यर्थम् ॥२०७॥
इदानीं विज्ञानमयस्य अनात्मत्वं निगमयति ।अत इति ।
अतो नायं परात्मास्यात् विज्ञानमयशब्दभाक् ।
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।
दृश्यत्वाद् व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥२०८॥