This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
पंकमस्यास्तीति
पंकेन मिश्रितत्वात् ।
 
पंकवत् पंकिलं जलं अस्पष्टं विजातीयेन पार्थिवेन
पंकापाये पंकस्यापायें तत उद्धृत्यापनयने जयं
स्फुटं इतरामिश्रं शुद्धं यथा भाति तथा आत्मापि परमात्मापि दोषाभावे
स्फुटप्रभः स्फुटा प्रभा प्रकृष्टा भा प्रभा अखण्डचैतन्यप्रकाशः यस्य सः
स्फुटप्रभः " सलिल एको द्रष्टा" इत्यादिश्रुतेः निर्मलजलवत् अनात्मा-
विषयकतया भासत इत्यर्थः ॥ २०६॥
 
तदेव स्फुटयन् अनात्माविषयकतया भानार्थ प्रयतितव्यमित्याह ।
असन्निवृत्ताविति ।
 
असन्निवृत्तौ तु सदात्मनः स्फुटप्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एवासदात्मनः साध्वहमादिवस्तुनः ॥२०॥
 
यतः एतस्य समीपतरवर्तिनः प्रतीचः सर्वान्तरस्य सदात्मनः काल-
त्रयेप्यबाध्यस्य आत्मनः परमात्मनः स्फुटप्रतीति: इतरामिश्रणेन भानं
असन्निवृत्तौ तु असतां अन्नमयादीनां अनात्मनां निवृत्तौ तु निवृत्तावेव
भवेत् नतु तेषामपि प्रतीयमानत्वे ।
ततः तस्मात् कारणात् असदात्मनः
असन् मिथ्या आत्मा स्वरूपं यस्य सः असदात्मा तस्य अहमादिवस्तुनः
अहं अहंकारः आदिर्यस्य तदहमादि तच्च तद्वस्तु अहमादिवस्तु तस्य
अहंकारादिदेहान्तस्य आत्मत्वेन भ्रमविषयतया स्वरूपावरकस्य साधु यथा
इतः परं अहंतास्पदतया न प्रतीयते तथा निरासः प्रतिकोशं नायमात्मेति
दृढतमविवेचनेन निरासः बाधः करणीय एव । उक्तं हि पूर्वं "पंचानामपि
कोशानां अपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः नः प्रत्यग्रूपः परः
स्वयंज्योतिः " इति। सर्वथा मुच्यतामयं जनः इति बहुप्रकारैः उपदिशति
करुणानिधिः श्रीगुरुः । तत्र शैवालावृतजलं दृष्टान्ततया कथितं । अत्र
विजातीयपंकमिश्रं तत् सर्वप्रकारैः अनात्मभेदस्य प्रतीचि सिध्यर्थम्
 
॥२०७॥
 
इदानीं विज्ञानमयस्य अनात्मत्वं निगमयति ।
 
अत इति ।
 
अतो नायं परात्मास्यात् विज्ञानमयशब्दभाक् ।
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः ।
 
दृश्यत्वाद् व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥२०८॥