This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
यद्बुध्युपाधिसंबन्धात् परिकल्पितमात्मनि ।
 

जीवत्वं न ततोन्यत्तु स्वरूपेण विलक्षणम् ॥२०२॥ .
 

 
आत्मनि परमात्मनि बुध्द्युपाधिसंबन्धात् बुद्धिरेवोपाधिः बुध्द्युपाधिः
तस्य संव

तस्य संब
न्ध: आज्ञानिकतादात्म्यं तस्मात् परिकल्पितं यत् जीवत्वं मिथ्या-

भूतं ततः अन्यत् सत्यभूतं, स्वरूपेण असंसारित्वादिरूपेण विलक्षणं भिन्नं

तु नैवेत्यर्थः ॥ भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः इति शिष्ये-

णोक्तत्वात् अन्यथावास्तु इति वास्तविकं जीवत्वं यथा सुधायाः हरिद्रायाश्च

योगे रक्तिमा वस्तुतः तथा इत्यभिप्रेत्य प्रश्नस्य कृतत्वात् तमभिप्रायं

निरसितुं आत्मनि बुध्धुद्ध्युपाधिसंबन्धवशात् यत्परिकल्पितं जीवत्वं तद्विना

स्वरूपेण विलक्षणं ततोन्यन्नास्तीत्युक्तं श्रीगुरुणा ॥ २०२॥
 
१२९
 
(4
 
'

 
"
असंगोह्ययं पुरुषः" इतिश्रुत्या अवस्तुभूत एवसंबन्ध : बुध्द्द्ध्या सह

तस्य वक्तव्य इत्याह । संबन्ध इति ।
 

 
संबन्ध: स्वात्मनो बुध्या मिथ्याज्ञानपुरस्सरः ।

विनिवृत्तिर्भवेत्तस्य सम्यज्ज्ञानेन नान्यथा ॥ २०३॥
 
उपपाद्यमानत्वात्
 

 
स्वात्मनः निरवयवतया संयोगादेर्वक्तु-मशक्यत्वात् संयोगस्थले

परस्परधर्मस्य परस्परस्मिन् प्रतीत्यभावाच्च । अयोवन्ह्योः संयोग-

संभवेपि अयो दहति इति वह्निर्दीघः व्यवहारस्य परस्पराध्यासेनैव

उपपाद्यमानत्वात्
बुध्धाद्ध्यात्मनोः कर्तृत्वचैतन्यादिधर्माणां प्रतीयमानानां

अन्योन्याध्यासमूलकत्वस्यैव वक्तव्यतया धर्मितादात्म्याध्यासः धर्माणा-

मध्यासे कारणमित्याध्यासिकतादात्म्यमेव मिथ्याभूताज्ञानमूलकं बुध्द्या
द्ध्या
साकं संबन्ध इति भावः । तस्य अज्ञानमूलकस्य संन्धस्य सम्यज्ज्ञानेन

विनिवृत्तिर्भवेत् रज्वादौ प्रतीत-सर्पतादात्म्यस्य रज्जुप्रमया बाधदर्शनात् ।

नान्यथा आज्ञानिकनिवृत्तौ प्रकारान्तरं नास्तीत्यर्थः । मिथ्याज्ञानपुरस्सर

इत्यत्र मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्पुरस्सरं पूर्वभावि यस्य इति

विग्रहे मिथ्याज्ञानमूलकत्वं लभ्यते संन्धस्य । मिथ्याज्ञानपदेन भ्रमा-

परपर्यायस्य अध्यासस्य परिग्रहे सः पुरस्सर: पूर्वं घटकः यत्र इत्यर्थेन

आध्यासिक-तादात्म्यरूपसंबन्धे पूर्वमध्यासस्य घटकत्वात् संबन्धे तद्विशेषणं
योजनीयम्। अर्थद्वयमपि सुवचम् ॥२०३॥
 
5