2023-02-27 10:25:08 by Vasant
This page has been fully proofread once and needs a second look.
भावः । नहि निद्रायां नष्टायां तत्कालप्रतिपन्नसुखदुःखादिकं जाग्रतः ।
तथा सम्यज्ज्ञानवतः नाज्ञानकालिकं संसारित्वं निमित्तापायात् । अनादेरपि
नाशोस्ति इत्यत्र परमतरीत्या दृष्टान्तमाह अनाद्यपीति । इदं अविद्या
तत्कार्यं च अनाद्यपि आदिरहितमपि नो नित्यं नैव नाशाप्रतियोगि
इतिस्फुटं । यथा तार्किकै: उत्पत्तिशून्यत्वेन अंगीक्रियमाणोपि तत्प्रति-
योगिनि कार्येजाते नश्यतीत्यंगीक्रियते एवं प्रकृतमपि । यद्यपि अनादि-
भावस्य नाशो नास्तीति दृष्टान्ते प्रागभावे वैषम्यमापादयितुं शक्यं -
अविद्यातत्कार्यस्य अभावरूपत्वाभावात् तथापि प्रागवस्थायाः भावरूपतया
तत्रैव कार्याभिव्यक्त्यनन्तर-मदृश्यमानायां उक्तार्थस्य वक्तुं शक्यत्वात्
तार्किकैरपि प्रागभावनिरूपणावसरे "तथाप्यस्तु कश्चिदतिरिक्तः पदार्थः
तथापि तस्य सप्रतियोगिकत्वे मानाभाव" इति स्वीकाराच्च । "नाभावो
विद्यते सत" इति गीतावचनात् । विनाशिनां अविद्यातत्कार्याणां सत्व-
रूपभावत्वस्य अनावश्यकत्वाच्च । श्रुत्यनुसारेण अविद्यादिकं अनादित्वेन
स्वीकुर्वतां लोकप्रसिद्धेरनादरणीयत्वाच्च इति दिक् । कस्मिंश्चन पदार्थे
उत्पत्तिशून्यत्वस्य नाशाप्रतियोगित्वस्य च शास्त्रमन्तरा ज्ञातुमशक्यत्वाच्च
दृष्टान्तभूतात्मनि तादृशत्वस्य शास्त्रेणैव ज्ञातत्वाच्च "जीवेशावाभासेन
करोति" "मायाऽविद्या च स्वयमेव भवति" इत्यनादित्वस्य "भूयश्चान्ते
विश्वमायानिवृत्तिः" इतिनाशस्य च अविद्यादौ श्रुत्यैवावगमितत्वाच्च
नात्र संशयप्रसक्तिः । एतावंतं कालं अज्ञातमिदं इदानीं ज्ञातं इतिव्यव
हारात् कदा अज्ञातमिति प्रश्नाभावात् अज्ञानानादित्वस्य ज्ञानात्त-
न्नाशस्य च अनुभवसिद्धत्वाच्च । अनादिभावत्वस्य आत्मनोन्यत्र कुत्राप्य -
भावादिति सर्वमनाकुलम् । कार्योत्पत्तेः प्राक् कार्यसमवायिकारणे इह
कपाले घटे नास्तीति व्यवहारसाक्षिकः अभाव: प्रागभाव इत्युच्यते ।
स च घटे उत्पन्ने नश्यति अतः अनादेरपि उत्पत्तेः प्रागनादितया स्थितस्य
कार्योत्पत्यनन्तरं प्रागभावस्य विध्वंस: वीक्षितः तथा ज्ञानोत्पत्तौ
अज्ञानं अनाद्यपि नश्यति । नष्टे तस्मिन् तत्कार्यं कुतस्त्यमिति
भावः ॥२०१॥
उपाधेर्निवृत्तौ औपाधिकस्य जीवत्वस्यापि निवृत्तिमाह ।
यदित्यादिना द्वाभ्यां ।