This page has been fully proofread once and needs a second look.

१२८
 
श्रीविवेकचुडामणिः सव्याख्यः
 
भावः । नहि निद्रायां नष्टायां तत्कालप्रतिपन्नसुखदुःखादिकं जाग्रतः ।

तथा सम्यज्ज्ञानवतः नाज्ञानकालिकं संसारित्वं निमित्तापायात् । अनादेरपि

नाशोस्ति इत्यत्र परमतरीत्या दृष्टान्तमाह अनाद्यपीति । इदं अविद्या

तत्कार्यं च अनाद्यपि आदिरहितमपि नो नित्यं नैव नाशाप्रतियोगि

इतिस्फुटं । यथा तार्किकै: उत्पत्तिशून्यत्वेन अंगीक्रियमाणोपि तत्प्रति-

योगिनि कार्येजाते नश्यतीत्यंगीक्रियते एवं प्रकृतमपि । यद्यपि अनादि-

भावस्य नाशो नास्तीति दृष्टान्ते प्रागभावे वैषम्यमापादयितुं शक्यं -

अविद्यातत्कार्यस्य अभावरूपत्वाभावात् तथापि प्रागवस्थायाः भावरूपतया

तत्रैव कार्याभिव्यक्त्यनन्तर -मदृश्यमानायां उक्तार्थस्य वक्तुं शक्यत्वात्

तार्किकैरपि प्रागभावनिरूपणावसरे "तथाप्यस्तु कश्चिदतिरिक्तः पदार्थः

तथापि तस्य सप्रतियोगिकत्वे मानाभाव" इति स्वीकाराच्च । "नाभावो

विद्यते सत" इति गीतावचनात् । विनाशिनां अविद्यातत्कार्याणां सत्व-

रूपभावत्वस्य अनावश्यकत्वाच्च । श्रुत्यनुसारेण अविद्यादिकं अनादित्वेन

स्वीकुर्वतां लोकप्रसिद्धेरनादरणीयत्वाच्च इति दिक् । कस्मिंश्चन पदार्थे

उत्पत्तिशून्यत्वस्य नाशाप्रतियोगित्वस्य च शास्त्रमन्तरा ज्ञातुमशक्यत्वाच्च

दृष्टान्तभूतात्मनि तादृशत्वस्य शास्त्रेणैव ज्ञातत्वाच्च '"जीवेशावाभासेन

करोति " "मायाऽविद्या च स्वयमेव भवति" इत्यनादित्वस्य "भूयश्चान्ते

विश्वमायानिवृत्तिः" इतिनाशस्य च अविद्यादौ श्रुत्यैवावगमितत्वाच्च

नात्र संशयप्रसक्तिः । एतावंतं कालं अज्ञातमिदं इदानीं ज्ञातं इतिव्यव

हारात् कदा अज्ञातमिति प्रश्नाभावात् अज्ञानानादित्वस्य ज्ञानात्त-

न्नाशस्य च अनुभवसिद्धत्वाच्च । अनादिभावत्वस्य आत्मनोन्यत्र कुत्राप्य -

भावादिति सर्वमनाकुलम् । कार्योत्पत्तेः प्राक् कार्यसमवायिकारणे इह

कपाले घटे नास्तीति व्यवहारसाक्षिकः अभाव: प्रागभाव इत्युच्यते ।

स च घंटे उत्पन्ने नश्यति अतः अनादेरपि उत्पत्तेः प्रागनादितया स्थितस्य

कार्योत्पत्यनन्तरं प्रागभावस्य विध्वंस: वीक्षितः तथा ज्ञानोत्पत्तौ

अज्ञानं अनाद्यपि नश्यति । नष्टे तस्मिन् तत्कार्यं कुतस्त्यमिति

भावः ॥२०१॥
 
""
 
(6
 

 
उपाधेर्निवृत्तौ औपाधिकस्य जीवत्वस्यापि निवृत्तिमाह ।
 

यदित्यादिना द्वाभ्यां ।