2023-02-20 14:42:52 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
१२७
यथार्थे न प्रतीतिरपि तस्येति केवलं ब्रह्ममात्रमवशिष्यते स्वरूपसाक्षा-
त्कारस्य अज्ञानतत्कार्यं-सकलनाशकत्वात् " अधिष्ठानावशेषो हि नाशः
कल्पितवस्तुनः" इतिप्रमाणात् ॥ १९९॥
"
एतावतापि "तदुपाधेरनादित्वान्नानादेनश इष्यते' इत्यस्य
स्पष्टमुत्तरमलभमानमिव शिष्यं ज्ञात्वा तदेवानूद्य समादधाति श्रीगुरुः
सार्धश्लोकट्टयेन । अनादित्वमिति ।
अनादित्वमविद्याया: कार्यस्यापि तथेष्यते ।
उत्पन्नायां तु विद्यायां आविद्यकमनाद्यपि ॥ २०० ॥
प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटं ।
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥२१॥
यदुक्तं त्वया उपाधेरनादित्वमिति तत्तथैव अविद्यायाः कार्यस्यापि
विज्ञानमयकोशस्य तथा अविद्याया इव अनादित्वं इष्यते । अविद्याया
एकरूपत्वात् विचित्रसृष्टे: विचित्रोपाधिनिवन्धनत्वात् सर्वसमस्य परम-
कृपालोः ईश्वरस्य विचित्रकर्माश्रय - बुद्धिरूपोपाध्यपेक्षायाः आवश्य-
कत्वात् बुद्धेरपि तत्कारणभूतायाः अनादित्वमकामेनाप्यंगीकर्तव्यं इति-
भावः । इदानीं तस्य निवृत्तिमाह विद्यायां उपनिषज्जन्यायां अधिष्ठान-
साक्षात्काररूपायां प्रमायां उत्पन्नायां सत्यामिति शेषः ।
तुशब्द: पक्षं
व्यावर्तयति अनादेर्नाशो नास्तीतिरूपम् । आविद्यकं अविद्याप्रयोज्यं ।
अनाद्यपि सृष्ट्यादिव्यवहारसिध्यर्थं अनादित्वेनांगीकृतमपि प्रबोधे निद्रां
त्यक्त्वा जागरे प्राप्ते स्वप्नवत् सहमूलं विनश्यति । न केवलं स्वयमेव
स्वस्य मूलभूता याऽविद्या तया सह मूलभूतनिद्रया साकं स्वाप्निकवस्तु-
जातमिव जागरे सर्वं विनश्यति । तेजस्तमसोरिव विद्याऽविद्ययोरेव
साक्षाद्विरोधः तथा निद्राजागरयो । अविद्यायां विद्यया नाशितायां
तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केन कं श्येत् " " यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति
स भूमा " इत्यादिश्रुत्या तादृशभूमविद्यायां संसारहेत्वविद्यायाः समूलकाषं
कषितत्वात् मलेछिन्ने वृक्षस्येव अविद्याकार्यस्य बुध्यादेविनाश एवेति
(6
""