This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
द्रष्टुः साक्षिणः निर्गुणस्य केनापि धर्मेण रहितस्य अक्रियस्य
निष्क्रियस्य विकारशून्यस्य प्रत्यग्बोधानन्दरूपस्य सर्वान्तरः यो बोधः
सः प्रत्यग्बोधः सचासावानन्दश्च प्रत्यग्बोधानन्दः स एव रूपं यस्य
सः प्रत्यग्बोधानन्दरूप तस्य स्वस्य आत्मन बुद्धेः भ्रान्त्या तादात्म्याभि-
मानेन प्राप्तः
कल्पितः जीवभावः न सत्यः अबाध्यः न भवति ।
भ्रान्तेः नाशेन बाध्यत्वात् । तदेवाह मोहापाये
अज्ञाननाशे तज्जनितभ्रान्ते-
स्वस्वरूपविषयकसाक्षात्कारे
श्रुत्याचार्योपदेशजनित-तत्वसाक्षात्कारेण
 
रभावात् तदभावे मोहस्य दूरपलायितत्वात् तस्य अपाये अवस्तु
यत्कल्पितं तत् स्वभावात् स्वधर्मतः कल्पना विषयत्वेन नास्ति । यद्वा
स्वभावात् कल्पितानां मोहापाये अप्रतीयमानतया नास्तित्वस्य स्वभावात्
अयमेव स्वभावः आरोपितानां वस्तूनां भ्रान्त्यभावे पूर्ववदप्रतीयमानत्वम्
इत्यर्थः ॥१९८॥
 
१२६
 
पूर्वश्लोकचतुर्थ-पादार्थमुपपादयति । यावदिति ।
 
यावद्भ्रान्तिस्तावदेवास्य सत्ता
 
मिथ्याज्ञानोज्जृंभितस्य प्रमादात् ।
 
रज्वां सर्पो भ्रान्तिकालीन एव
 
भ्रान्तेर्नाशे नैव सर्पोस्ति तद्वत् ॥ १९९॥
 
मिथ्या-
यदज्ञानं
 
कार्यस्य मिथ्यात्वं वक्तुं कारणं विशिनष्टि मिथ्येति ।
ज्ञानोज्जृम्भितस्य मिथ्याभूतं अधिष्ठानसाक्षात्कारनिवर्त्यं
तस्मादुज्जुंभितस्य संजनितस्य अस्य अवस्तुनः प्रमादात् अधिष्ठाना-
रोप्याविवेकात् । यावद्भ्रान्ति: विपरीतज्ञानं तावदेव सत्ता अस्तित्वेन
प्रतीयमानत्वं । तत्र दृष्टान्तः रज्वां सर्पः रज्वज्ञानात् रज्जुसाक्षात्कार-
बाध्यात् प्रमादात् पुरोव्यक्तौ नायं सर्प इतिविवेकाभावात् उज्जम्भितः
भ्रान्तिकालीन एवं यावत्पर्यन्तं अयं सर्प इतिभ्रान्तिः तावदेव अस्तितया
प्रतीयते । नायं सर्पः किंतु रज्जुरितिविशेषदर्शने भ्रान्तेः अयं सर्पइत्या-
कारिकाया नाशे बाधे नैव सर्पोस्ति । तद्वत् अहं ब्रह्मास्मीति साक्षात्कार-
पर्यन्तं मूलाज्ञानजनित -प्रमादात् संसारित्व भ्रान्तिः वस्तुतः संसारः कदापि
नास्त्येव । रज्वां सर्प इव पूर्वं भ्रान्त्या प्रतीयते स्म । जाते च ज्ञाने