This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
कश्चिद्धीरः
 
आत्मविषयकपरोक्षज्ञानवद्भिः, धीरैः वशीकृतबुद्धिभिः "परांचि खानि
व्यतॄणत् स्वयंभूः तस्मात् पराः पश्यति नान्तरात्मन् ।
प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्" इति श्रुतेः । धियं रातीति
धीरः, प्रधानभूतां कार्यकरणसंघातमध्ये बुद्धि वशयतीत्युक्ते इतरेन्द्रियजयः
अर्थसिद्धः । एतेन शान्त्याद्युपेतत्वं सूचितं भवति । अत एव आत्माभ्यासे
तच्चिन्तनं तत्कथनं अन्योन्यं तत्प्रबोधनं । एतदेकपरत्वं च ब्रह्माभ्यासं
विदुर्बुधा: " इत्यभियुक्तोक्तिरीत्या अनन्यव्यापारतया श्रुतार्थमनन-
तत्कथन-परस्पर-प्रबोधनरूप-ज्ञानकाण्डोक्तव्यापारेषु उपस्थितैः वर्तमानैः,
विजातीयप्रत्यातिरस्कृत-सजातीय-प्रत्यय-प्रवाहरूप- निदिध्यासनानुष्ठानेन
यत्यताम् इत्यन्वयः । एतादृशस्य पुंसः सर्वसंकल्पसंन्यासेन परवैराग्या-
परपर्यायं योगारूढत्वं सिद्धमेव मन्तव्यम् ॥ १०॥ ननु "यावज्जीवमग्निहोत्रं
जुहुयात् " "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत "
'
अहरह-स्संध्या-
मुपासीत " "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतंग समाः " इत्यादिश्रुतिभिः
यावज्जीवं कर्मणः कर्तव्यत्वेन चोदितत्वात् सर्वकर्मसंन्यासे श्रुत्युल्लंघनं प्रस-
ज्येतेति चेत्, तासां श्रुतीनां अशुद्धचित्तविषयत्वात् । अत एव " एवं त्वयि
नान्यथेतोस्ति न कर्म लिप्यते नरे" इतीशावास्यमन्त्रेण नरे नरमात्राभि-
मानिनि त्वयि इतः कर्मकरणात् अन्यथा अन्यो मार्ग: कर्मलेपाभाव-
प्रयोजक: नास्तीत्युक्तम् । न कर्मणा न प्रजया धनेन त्यागेनैके
अमृतत्वमानशुः । संन्यासयोगाद्यतयश्शुद्धसत्वाः " ॥ 'प्लवा ह्येते
अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येभिनन्दन्ति
मूढा जरामृत्युं ते पुनरेवापि यन्ति" "किमर्था वयमध्येष्यामहे किमर्था
 
""
 
"
 
"(
 
"(
 
"
 
66
 
वयं यक्ष्यामहे " इत्यादिना कर्मसंन्यासस्यापि विहितत्वात् निन्दितत्वाच्च
कर्मणः ॥ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकेन " " योगिनः कर्म कुर्वन्ति संगत्यक्त्वाऽऽत्मशुद्धये " इत्यादि-
श्रुतिस्मृत्यर्थपर्यालोचनया विविदिषासाधनत्वं चित्तशुद्धिद्वारा तेषामव-
सीयते, नतु सार्वदिकत्वं । तथासति " यदहरेव विरजेत् तदहरेव प्रव्रजेत् "
इत्यादि-संन्यासविधायक-वाक्यव्याकोपापत्तेः, कर्मनिन्दानुपपत्तेश्च । "अत
एवचाग्नीन्धनाद्यनपेक्षा " "सर्वापेक्षा च यज्ञादिश्रुते रश्ववत् " इति च
सूत्राभ्यां अयमेवार्थो भण्यते । परमपुरुषार्थ- भूतमोक्षार्थत्वं नास्ति
कर्मणां, चित्तशुद्धिद्वारा ज्ञानवहिरंगत्वमिति, तदिदमाह चित्तस्येति ।
 
F
 
66
 
66