This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 

 
१२५
 

 
हे विद्वन् बुद्धिमन् त्वया सम्यक्पृष्टं । तत् पृष्टं यद्वस्तु तत्

<Error>
हे
।</error> <fix>deleted</fix>
सावधनेन विषयान्तर-संचाररहित -मनसा शृणु श्रुत्वावधारयेत्यर्थः ।

भ्रान्त्या मोहितकल्पना मोहोस्य संजात: मोहितः मोहश्च प्राप्तज्ञाय-

मानताक-वस्तुनः ज्ञानाभावः तामसः धर्मः । वस्तुतः निर्मलज्ञानस्वरूपत्वेपि

<error>
अज्ञानज नितान्त्यादृढीभूतया </error> <fix>अज्ञानजनितभ्रान्त्यादृढीभूतया</fix>मोहः पूर्वोक्तः तद्विशिष्टस्य पुरुषस्य या

कल्पना स्वस्य <error>असंसारिगोपि</error><fix>असंसारिणोपि</fix> संसारित्वकल्पना सा प्रामाणिकी न भवति

यथार्था न भवति प्रमाणसिद्धा न भवतीत्यक्षरार्थः । भ्रमप्रयोज्यमोह-

मूलकत्वात् मुग्धस्य सम्यज्ज्ञानासमर्थत्वात् ॥ १९६॥
 

 
<error>
भ्रान्ति </error><fix>भ्रान्तिं</fix>विना त्वसंगस्य निष्क्रियस्य निराकृतेः ।

न घटेतार्थसंबन्धो नभसो नीलतादिवत् ॥ १९७॥

तुरवधारणार्थ : नञा संबध्यते । असंगस्य वस्तुतः संगशून्यस्य

असंगोह्ययं पुरुषः " इतिश्रुतेः सुषुप्तावनुभवाच्च ।

निष्क्रियस्य

निर्विकारस्य "निष्कलं निष्क्रियं" इतिश्रुतेः "अव्यक्तोयमचिन्त्योयं

अविकार्योयमुच्यते " इतिस्मृतेश्च । निराकृते: "न तस्य कार्यं करणं च

विद्यते, अस्थूलं अनणु " इत्यादिश्रुतेः । भ्रान्ति विना स्थूलसूक्ष्म-कारण-

शरीरेषु तादात्म्याभिमानं विना <error>अर्थसंवन्धः </error><fix>अर्थसंबन्धः</fix>दृश्यसंबंधः नैव घटेत । नभसः

गगनस्य असंगस्य निष्क्रियस्य निराकृतेः नीलतादिवत् । उक्तं हि " अप्रत्यक्षे

<error>
पियाकाशे </error> <fix>पिह्याकाशे</fix>बालास्तलमलिनताद्यध्यस्यन्ति" इति भाष्ये । अविवेकिनः

गगनमपि नीलं पीतं इन्द्रनीलकटाह इति कल्पयन्ति इति गगनस्य यथा

नीलत्वादिकं अप्रामाणिकं न घटते तथेत्यर्थः । एवं परमात्मन्यपि जीव-

भाव: अप्रामाणिक इति भावः । नहि कल्पनामात्रात् गगनं नीलादिरूपं

भवति एवं प्रकृतेपि इति बोध्यम् ॥१९७॥
 

 
66
 

 
"
 

 
तदेव स्फुटयन् संसारनिवृत्तिमुपपादयति द्वाभ्यां, आत्मन:-

वास्तविकस्वरूपं श्रुतिसिद्धं विद्वदनुभवसिद्धं च कथयति । तत्र जीवस्य

मिथ्यात्वसिद्धये । स्वस्येति ।
 
स्वस्य

 
स्वस्य <error>
द्रष्टुनिगुणस्याक्रियस्य
<</error><fix>द्रष्टुर्निगुणस्याक्रियस्य</fix>
प्रत्यग्बोधानन्दरूपस्य बुद्धेः ।

भ्रान्त्या प्राप्तो जीवभावो न सत्यो
 

 
मोहापाये नास्त्यवस्तु स्वभावात् ॥ १९८॥