This page has been fully proofread once and needs a second look.

१२४ श्रीविवेकचूडामणिः सव्याख्यः
 

अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घत्व- वर्तुलत्वादयः
तान् अविकारिवह्निवत् वस्तुतः तादृशधर्मशून्य-वह्निरिव अयसि दीर्घे
दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके । तथा परात्मापि
परमात्मापि उपाधिसंबन्धवशात् स्वप्रकाश्येनापि उपाधिना अविद्यया
कल्पितः यः तादात्मरूपसंबन्धः तद्वशात् उपाधिधर्मान् कर्तृत्वभोक्तृत्वादीन्
'ध्यायतीव लेलायतीव" इति श्रुतेः, बुद्धौ ध्यान्त्यां ध्यायतीव लेलायन्त्यां
चलन्त्यां चलतीव इत्यर्थः श्रुतेः । अनुसृत्य तद्गुणः उपाधिधर्मवानिव भाति
अहं करोमि सुखी दुःखीत्यादिप्रकारेण । वस्तुतः सदा स्वभावात् स्वकीय
सच्चिदानन्दस्वरूपतः परः नित्यशुद्ध-बुद्धमुक्तस्वभावः । अतः एकरूपोपि
विकारशून्योपीति पूर्वं योजनीयं । प्रकाशके वोवह्नौ दृष्टान्ते परात्मनि
च दान्र्ष्टांतिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानं ॥१९३॥
 
१२४
 
शिष्य उवाच ।
 
भ्रमेणाप्यन्यथावास्तु जीवभावः परात्मनः ।
तदुपाधेरनादित्वात् नानादेर्नाश इष्यते ॥ १९४॥
अतोस्य जीवभावोपि नित्यो भवति संसृतिः ।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ १९५॥
 
परात्मन: असंसारितया सर्वोत्कृष्टस्य परमात्मनः जीवभावः
जीवत्वं भ्रमेण वा भ्रान्त्या वा अन्यथापि वा वस्तुतो वा अस्तु तदुपाधे:
जीवभावः येनोपाधिना उच्यते तस्य उपाधे: विज्ञानमयकोशस्य " अनादि-
कालोयमहंस्वभावः जीव " इत्युक्ततया अनादित्वात् आत्मनः इव अनादेः
नाशः कस्यापि नेष्यते अतः जीवभावप्रयोजकोपाधेरनादित्वात् नाशा-
संभवाच्च अस्य परात्मनः जीवभावोपि नित्यो भवति न नश्यति संसृतिः
जीवभावनित्यत्वे नित्येति न निवर्तेत नैव नश्येत् तत् तस्मात् मोक्षः कथं
मे मम संसारनिवृत्तिः कथं श्रीगुरो वद उपदिश ॥१९५॥
 
श्रीगुरुरुवाच ।
 
सम्यक्पुपृष्टं त्वया विद्वन् सावधानेन तच्छृणु ।
प्रमाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६॥