This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 

 
अयोविकारान् अयसः विकाराः अयोविकाराः दीर्घत्व- वर्तुलत्वादयः

तान् अविकारिवह्निवत् वस्तुतः तादृशधर्मशून्य-वह्निर अयसि दीर्घे

दीर्घो वह्निरिति वर्तुले वर्तुल इति भ्राम्यन्ति लोके । तथा परात्मापि

परमात्मापि उपाधिसंबन्धवशात् स्वप्रकाश्येनापि उपाधिना अविद्यया

कल्पितः यः तादात्म्यरूपसंबन्धः तद्वशात् उपाधिधर्मान् कर्तृत्वभोक्तृत्वादीन्

'ध्यायतीव लेलायतीव" इतिश्रुतेः, बुद्धौ ध्यायन्त्यां ध्यायतीव लेलायन्त्यां

चलन्त्यां चलतीव इत्यर्थः श्रुतेः । अनुसृत्य तद्गुणः उपाधिधर्मवानिव भाति

अहं करोमि सुखी दुःखीत्यादिप्रकारेण । वस्तुतः सदा स्वभावात् स्वकीय

सच्चिदानन्दस्वरूपतः परः नित्यशुद्ध-बुद्धमुक्तस्वभावः । अतः एकरूपोपि

विकारशून्योपीति पूर्वं योजनीयं । प्रकाशके वो दृष्टान्ते परात्मनि

च दान्तिके सर्वप्रकाशके विकारशून्यत्वेन एकरूपत्वं समानं ॥१९३॥
 

 
१२४
 

 
शिष्य उवाच ।
 

 
भ्रमेणाप्यन्यथावास्तु जीवभावः परात्मनः ।

तदुपाधेरनादित्वात् नानादेर्नाश इष्यते ॥ १९४॥

अतोस्य जीवभावोपि नित्यो भवति संसृतिः ।

न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ १९५॥
 

 
परात्मन: असंसारितया सर्वोत्कृष्टस्य परमात्मनः जीवभावः

जीवत्वं भ्रमेण वा भ्रान्त्या वा अन्यथापि वा वस्तुतो वा अस्तु तदुपाधे:

जीवभावः येनोपाधिना उच्यते तस्य उपाधे: विज्ञानमयकोशस्य " अनादि-

कालोयमहंस्वभावः जीव " इत्युक्ततया अनादित्वात् आत्मनः इव अनादेः

नाशः कस्यापि नेष्यते अतः जीवभावप्रयोजकोपाधेरनादित्वात् नाशा-

संभवाच्च अस्य परात्मनः जीवभावोपि नित्यो भवति न नश्यति संसृतिः

जीवभावनित्यत्वे नित्येति न निवर्तेत नैव नश्येत् तत् तस्मात् मोक्षः कथं

मे मम संसारनिवृत्तिः कथं श्रीगुरो वद उपदिश ॥१९५॥
 

 
श्रीगुरुरुवाच ।
 

 
सम्यक्पृपुष्टं त्वया विद्वन् सावधानेन तच्छृणु ।

प्रमाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६॥