This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
जनकप्रश्नोत्तरवाक्ये " प्राणेषु " इति पदेन प्राणशब्दबोधितेंद्रिय-मुख्य-

प्राणत्व-मात्मनो नास्तीति कथितं भवति । प्राणसामीप्यं बुद्धेरप्यस्ति अतः

व्यावर्तयति हृदिस्फुरत्स्वयंज्योतिरिति हृदयपुण्डरीकावच्छिन्नबुद्धौ प्रकाश-

मानं पराप्रकाश्यं यज्ज्योतिः चैतन्यं सर्वावभासकं तद्रूपः योयं विज्ञानमयः

आमोक्षं बुद्धया न विना भूयतेऽनेनेति तत्प्रचुरत्वात्तन्मयत्वं । स्वार्थे

मयड्वा विज्ञानस्वरूप इत्यर्थः । ईदृगात्मा कूटस्थ: कूटवत्तिष्ठतीति

कूटस्थ: अयोघनवत् निर्विकारः सन्नपीति अपिशब्दो योजनीयः ।

उपाधिस्थः उपाधौ ज्ञानक्रियावत्यां बुद्धौ तादात्म्येन आविद्यकेन वर्तमानः

कर्ता भोक्ता भवति यथा स्फटिके लौहित्यं भ्रमात् तथा ॥ १९१ ॥
 

 
तदेवस्फुटयति । स्वयमिति ।
 

 
स्वयं परिच्छेदमुपेत्य बुद्धेः

तादात्म्यदोषेण परं मृषात्मनः ।

सर्वात्मकस्सन्नपि वीक्षते स्वयं
 
१२३
 

स्वतः पृथक्त्वेन मृदोघटानिव ॥ १९२॥
 
66
 

 
मृषात्मनः मिथ्यास्वरूपवत्याः बुद्धेः, तादात्म्यदोषेण परं केवलं

न तु स्वतः इत्यर्थ: स्वयं परिच्छेदं अल्पत्वं उपेत्य प्राप्य स्वयं सर्वात्मक-

स्सन्नपि " इदं सर्वं यदयमात्मा" " सर्वं खल्विदं ब्रह्म " इत्यादिश्रुतेः ।

अकुशलमतिः मृदः पंचमी घटानिव यथा मृदुपादानकतया तदव्यतिरिक्तान्

घटान् पृथक्पश्यति भिन्नत्वेन वीक्षते तथा सर्वोपादानतया स्वव्यतिरेकेण

कस्याप्यभावेपि स्वतः पृथक्त्वेन भेदेन वीक्षते अहं सः इदं त्वं इत्यादिभेद-

बुद्धिमान्भवतीत्यर्थः ॥ १९२॥
 
(1
 

 
इममर्थं निर्विकारस्य सविकारत्वं " कूटस्थस्सन् आत्मा" इत्यत्रोक्तं

च सदृष्टान्तं कथयति । उपाधीति ।
 

 
उपाधिसंबन्धवशात्परात्माप्यु-

पाधिधर्माननुभाति तद्गुणः ।

अयोविकारानविकारिवह्निवत्
 

सदैकरूपोपि परः स्वभावात् ॥ १९३॥