This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
दुःखानुभववान्भवत्यपि । तदर्थं अधः नरकादौ आयाति आगच्छति,

ऊर्ध्वं स्वर्गादौ निर्याति निर्गच्छति एष जीव इत्यर्थः । अहं जागर्मि अहं

स्वपिमि अहमस्वाप्स, अहं सुखी दुःखीत्यादिरीत्या आत्मनि प्रतीयमान-

धर्माः सर्वपि एतत्तादात्म्याभिमानादिति निधर्मकमात्मानं इतो विवेचयति ।

अस्यैव विज्ञानमयस्य जाग्रत्स्वप्नाद्यवस्था: आदिपदेन सुषुप्तिसमाधि-

परिग्रहः । सुखदुःखभोगः, अनुभवः भोगः ॥१८९॥
 
१२२
 

 
देहादिनिष्ठाश्रम-धर्मकर्म-गुणाभिमानः सततं ममेति ।

विज्ञानकोशोयमतिप्रकाशः प्रकृष्टसान्निध्य-वशात्परात्मनः ।

अतो भवत्येष उपाधिरस्य यदात्मधी: संसरति भ्रमेण ॥१९०॥

 
देहादीति । आदिपदेन चक्षुरादीन्द्रिय प्राणपरिग्रहः । तन्निष्ठाः

ये आश्रमाः ब्रह्मचर्यादयः, धर्माः मनुष्यत्व-ब्राह्मणत्वादयः, कर्माणि

स्थितिगत्यादीनि लौकिकानि मन्त्रोच्चारणादीनि वैदिकानि गुणा:

हृस्वत्वदीर्घत्वादयः सौगुण्य वैगुण्यादयो वा एतेषु सततं ममेत्यभिमानः

आत्मप्रतिफलनानुविद्धा बुद्धि: इन्द्रियेषु प्राणेषु देहे च संबध्यमाना,

तदीयधर्मानात्मन्यारोपयति । स्वतो जडाया अप्यस्याः चेतनवदेवस्थितौ

निमित्तमाह, परात्मनः "चेतनश्चेतनानां " इति श्रुत्या केवलनिर्मलासंग-

चिद्रूपस्य परमात्मनः प्रकृष्टसान्निध्यवशात् परमुखनिरपेक्षप्रतिफलन-

महिम्ना अयं विज्ञानकोश: बुद्धिरूपकोशः अतिप्रकाशः । इतरेषु इन्द्रियेषु

साक्षाच्चैतन्य-संबन्धाभावादित्यभिप्रायः । अतः प्रकृष्टसान्निध्यस्य

सत्वात् अस्य आत्मनः एषः कोश: उपाधि : जीवइति भेदहेतुः भवति ।

कर्तृत्व - भोक्तृत्व निवासभूत जीवत्वधर्माश्रय मूलहेतुः । यदात्मधीः

यस्मिन्नुपाधौ आत्मधी: अहमिति मतिमान् भ्रमेण भ्रान्त्या संसरति

कर्तृत्वादिदुःखमनुभवति ॥ १९०॥
 

 
तदेवोपपादयति। योयमित्यादिना त्रिभिः ।
 

 
योयं विज्ञानमयः प्राणेषु हृदिस्फुरत्स्वयंज्योतिः ।

कूटस्थस्सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१॥

पाषाणे वृक्ष इतिवत् सामीप्यसप्तमी । प्राणेषु चक्षुरादिसमीपे ।

एतेन अहमिति प्रतीतिविषयत्वस्य बहुषु सत्वात् "कतम आत्मा " इति-