This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१२१
 
असंभवात् जीवत्वस्यापि बुध्युपाधिनिबन्धनत्वात् अयं कोश एव
आध्यासिकतादात्म्यापन्नतया जीवाभिन्नत्वेन विवक्षित इति अजस्रं सर्वदा
जाग्रत्स्वप्नयोः भृशं अत्यन्तं अहमित्यभिमन्यते । अहं मनुष्यः स्थूलः
गच्छामि तिष्ठामि लंघयामि अहं पश्यामि अहं शृणोमि अहमुच्छ्वसिमि
निश्वसिमीत्यादिप्रकारेण तादात्म्याभिमानवान् भवतीति ज्ञानवत्वमुप-
पादितं ॥१८७॥
 
क्रियावत्वमुपपादयति । अनादीत्यादिना ।
 
अनादिकालोयमहंस्वभावो
 
जीवस्समस्त-व्यवहारवोढा ।
 
करोतिकर्माण्यनु-पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥
भुङ्क्ते विचित्रास्वपि योनिषु व्रजन आयाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्रत्स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ १८९॥
 
"
 
यद्यपि प्रकृतेविकार इत्युक्तत्वात् सादित्वं वक्तव्यम् । अथापि
महाप्रलयेपि कारणात्मना अव्यक्ततया वर्तमानत्वात् पूर्वकर्मवासनाश्रय-
बुद्धेः अत्यन्तनाशे पुनःसृष्टेरनुपपत्तेः सृष्टिकाल एव "अनेन जीवेनात्मना "
इति परदेवतया नामरूपव्याकरणार्थं ईक्षण श्रुतेश्च आविदेहकवल्यं
आत्यंतिकनाशो नास्तीति पुंसः संसारकारणभूताया बुद्धेरपि अनादित्वं
अवश्यं वक्तव्यमिति तत्प्रयोज्य-देहेन्द्रियाद्यभिमानोपि स्वप्रागभावकालत्व-
व्यापक-स्वसजातीय-कत्वरूपानादित्ववान् भवति ।
 
अनादिः
 
काल:
अयं
 
"
 
यस्य अनादिकालः इदमिदानीं आरब्धमिति वक्तुमशक्यत्वात् ।
देहेन्द्रियादिषु अहमितिस्वभावः अभिमानः वासना यस्य सः अहंस्वभावः
जीवः समस्तव्यवहारबोढा " विज्ञानं यज्ञं तनुते । कर्माणि तनुतेपि च
इतिश्रुतेः लौकिक - वैदिकसर्वव्यवहारकर्ता । तदुपपादयति अनुपूर्ववासनः
अनुगता: पूर्ववासना: यं सः अनुपूर्ववासनः " तं विद्याकर्मणी समन्वारभेते
पूर्वप्रज्ञा च " इतिश्रुतेः " पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन "
इति च श्रुतेः । पुण्यानि शास्त्रविहितानि अपुण्यानि तन्निषिद्धानि विहित -
निषिद्धान्यानि उदासीनानि भोजनस्वापादीनि च करोति । भोक्तृत्वं
वक्ति । तत्फलानि तेषां कृतविहित-निषिद्धकर्मणां फलानि । विचित्रासु
देवतिर्यङ्मनुष्यादिचतुरशीति लक्षप्रभेदासु योनिषु व्रजन् भुंक्तेपि सुख-