This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
(6
 
,
 
बुद्धीन्द्रियैः पंचभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः सार्धं सह । सवृत्तिः

वृत्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः कर्तुलक्षणः कर्तृ लक्षणं

ज्ञानेच्छाकृतिमत्वं यस्य सः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् तत्संज्ञकः

कोशो भवति । तस्य कार्यमाह पुंस इत्यादिना, पुंसः आत्मनः संसारकारणं

"
स समानस्सन्नुभौ लोकावनुसंचरति, सधी: स्वप्नो भूत्वा ध्यायतीव

लेलायतीव" इत्यादिश्रुतिभ्यः एकमेवान्तःकरणं संशयात्मकवृत्तिमत् मन

इति, निश्चयात्मकवृत्तिमत् बुद्धिरिति कथ्यते । तत्र मनसः करणत्वं

बुद्धेः कर्तृत्वं । निश्चित्य हि करोति । अतः पूर्वापरीभाववत्वेन मनोबुध्योः

बहिरंतर्भाव इति मनोमयायांनन्तरं बुध्यात्मक -विज्ञानमयस्य पार्थक्येन

कथनं । नो चेत् पंचानां ज्ञानेन्द्रियाणां उभयत्राविशिष्टत्वात् भेदानापत्ते-

रिति बोध्यं । '"तस्माद्वा एतस्मान्मनोमयात् । अन्योन्तर आत्मा विज्ञान-

मय: " इति श्रुतेश्च । तत्राप्ययमेवाभिप्रायः ॥ १८६॥
 
(6
 
१२०
 

 
अनुव्रजच्चित्प्रतिबिंबशक्तिः

विज्ञानसंज्ञः प्रकृतेर्विकारः ।

ज्ञानक्रियावान् अहमित्यजस्रं
 

देहेन्द्रियादिष्वभिमन्यते भृशम् ॥१८७॥
 

 
भूतपंचकसत्व-समष्टिकार्यत्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं

प्रतिबिंबत इति अनुव्रजन् यः चिते: चिद्रूपस्य परमात्मनः प्रतिबिंब:

जीवः तस्य शक्तिर्भासकत्वरूपा यस्य भासकप्रतिबिंबस्यापि भासकत्वात्,

प्रसिद्धं हि लोके दर्पणादिबिबिंबितसूर्यप्रतिबिंबस्यापि सूर्यप्रवेशायोग्यान्ध-

कारावृत-भूविवरादिगत वस्तुभासकत्वं इति । अनुव्रजच्चित्प्रतिबिंब शक्तिः

चिदनुप्रवेशाच्चिच्छक्तिविशिष्टः अत एव विज्ञानसंज्ञ: विज्ञानमिति संज्ञा

यस्य सः " विज्ञानं यज्ञं तनुते " इतिश्रुतेः । प्रकृतेः मूलप्रकृतेः अविद्यायाः

विकार: सूक्ष्मभूतपंचक-सत्वसमष्टिकार्यत्वात् सूक्ष्मभूतपंचकस्य अविद्या-

कार्यतया परंपरया अविद्याकार्यत्वं अस्य कोशस्य । ज्ञानक्रियावान् ज्ञानं

च वृत्यात्मकं क्रिया च विषयविचार-ध्यान-लोकान्तरगमनादिरूपा ज्ञान-

क्रिये ते अस्य स्त इति ज्ञानक्रियावान् देहेन्द्रियादिषु उक्तं हि पूर्वं

"अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि। अहमित्यभिमानेन तिष्ठत्याभास

तेजसा "
इति । अतः जीवस्य योभिमान: देहादौ तस्य बुद्धिं विना