2023-02-20 14:42:51 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
(6
,
बुद्धीन्द्रियैः पंचभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः सार्धं सह । सवृत्तिः
वृत्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः कर्तुलक्षणः कर्तृ लक्षणं
ज्ञानेच्छाकृतिमत्वं यस्य सः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् तत्संज्ञकः
कोशो भवति । तस्य कार्यमाह पुंस इत्यादिना, पुंसः आत्मनः संसारकारणं
स समानस्सन्नुभौ लोकावनुसंचरति सधी: स्वप्नो भूत्वा ध्यायतीव
लेलायतीव" इत्यादिश्रुतिभ्यः एकमेवान्तःकरणं संशयात्मकवृत्तिमत् मन
इति, निश्चयात्मकवृत्तिमत् बुद्धिरिति कथ्यते । तत्र मनसः करणत्वं
बुद्धेः कर्तृत्वं । निश्चित्य हि करोति । अतः पूर्वापरीभाववत्वेन मनोबुध्योः
बहिरंतर्भाव इति मनोमयानन्तरं बुध्यात्मक विज्ञानमयस्य पार्थक्येन
कथनं । नो चेत् पंचानां ज्ञानेन्द्रियाणां उभयत्राविशिष्टत्वात् भेदानापत्ते-
रिति बोध्यं । 'तस्माद्वा एतस्मान्मनोमयात् । अन्योन्तर आत्मा विज्ञान-
मय: " इति श्रुतेश्च । तत्राप्ययमेवाभिप्रायः ॥ १८६॥
(6
१२०
अनुव्रजच्चित्प्रतिबिंबशक्तिः
विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञानक्रियावान् अहमित्यजस्रं
देहेन्द्रियादिष्वभिमन्यते भृशम् ॥१८७॥
भूतपंचकसत्व-समष्टिकार्यत्वाद् बुद्धेः स्वच्छतया तत्र चिदवश्यं
प्रतिबिंबत इति अनुव्रजन् यः चिते: चिद्रूपस्य परमात्मनः प्रतिबिंब:
जीवः तस्य शक्तिर्भासकत्वरूपा यस्य भासकप्रतिबिंबस्यापि भासकत्वात्,
प्रसिद्धं हि लोके दर्पणादिबिबितसूर्यप्रतिबिंबस्यापि सूर्यप्रवेशायोग्यान्ध-
कारावृत-भूविवरादिगत वस्तुभासकत्वं इति । अनुव्रजच्चित्प्रतिबिंब शक्तिः
चिदनुप्रवेशाच्चिच्छक्तिविशिष्ट अत एव विज्ञानसंज्ञ: विज्ञानमिति संज्ञा
यस्य सः " विज्ञानं यज्ञं तनुते " इतिश्रुतेः । प्रकृतेः मूलप्रकृतेः अविद्यायाः
विकार: सूक्ष्मभूतपंचक-सत्वसमष्टिकार्यत्वात् सूक्ष्मभूतपंचकस्य अविद्या-
कार्यतया परंपरया अविद्याकार्यत्वं अस्य कोशस्य । ज्ञानक्रियावान् ज्ञानं
च वृत्यात्मकं क्रिया च विषयविचार-ध्यान-लोकान्तरगमनादिरूपा ज्ञान-
क्रिये ते अस्य स्तइति ज्ञानक्रियावान् देहेन्द्रियादिषु उक्तं हि पूर्वं
"अन्तःकरणमेतेषु चक्षुरादिषु वष्मणि। अहमित्यभिमानेन तिष्ठत्याभास
तेजसा "
इति । अतः जीवस्य योभिमान: देहादौ तस्य बुद्धिं विना