This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
देहादिषु रागसत्वे कर्म करोति कर्मसत्वे विक्षेपः । रागनिर्मूलनेन सर्वं

कर्मत्यक्त्वा श्रवणादिभिः अन्तर्निष्ठस्य श्रद्धालोः बुद्धिविक्षेपस्य नैवावसरः।

अतो विरक्तेन सन्यासिना श्रवणादिकं श्रद्धया बुद्धिदोषनिवृत्तये कार्य-

मित्युक्तं भवति ॥ १८४॥
 

 
इदानीं मनोमयस्य अनात्मत्वं निगमयति । मनोमय इति ।
 

 
मनोमयो नापि भवेत्परात्मा
 

ह्याद्यन्तवत्वात् परिणामिभावात् ।
 

दुःखात्मकत्वात् विषयत्वहेतोः
 

द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥
 

 
मनोमयोपि परात्मा परमात्मा न भवदेत्यन्वयः। तत्र हेतवः

संगृह्यन्ते आद्यन्तवत्वात् सुषुप्तौ लयात् जाग्रदादौ उत्पत्तेश्च आद्यन्तशून्यः

आत्मा न भवति एवं परिणामिभावात् परिणामिनः भावः परिणामिभावः

विकारवत्वं कामसंकल्पाद्यात्मना परिणममानत्वात् अविकारी आत्मा

न भवति । दुःखं आत्मा स्वरूपं यस्य दुःखात्मकं तस्य भावः तत्वं । अत एव

निरुध्यते शोध्यते च । अध्यासद्वारा सर्वदुःखहेतुत्वं उपपादितं । अतः आनन्द -

रूपः आत्मा न भवति । विषयत्वमेव हेतुः तस्मात् "अन्यत्र मना अभूवं

नाद्राक्षम् अन्यत्रमना अभूवं नाश्रौषं " इति श्रुतेः । साक्षिणा विषयीक्रियत

इति विषयत्वरूपहेतोश्च सर्वसाक्षी आत्मा न भवति । तदिदमाह

द्रष्टाहीत्यादिना, हि यतः द्रष्टा पश्यतीति द्रष्टा ज्ञाता यः सः दृश्यात्मतया

विषयतया न दृष्टः न लोकसिद्धः इत्यर्थः । अतः सर्वदा मनस्थितिकाले

तदभावे च साक्षिणा सद्भावाभावयोः ज्ञायमानतया कर्तृकर्मविरोधात्

स्वद्रष्टृत्वस्य स्वस्मिन् विरुद्धत्वाच्च दृश्यं मनः न द्रष्टृस्वरूप आत्मा

इत्यनात्मत्वं तस्य सिद्धम् ॥१८५॥
 

 
इदानीं विज्ञानमयकोशं निरूपयति । बुद्धिरिति ।
 

 
बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्मलक्षणः ।

विज्ञानमयकोशस्स्यात् पुंसः संसारकारणम् ॥ १८६॥