This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
तत्वदर्शिनः तत्वं द्रष्टुं शीलं येषां ते । पण्डिताः श्रुतवेदान्ताः

पुरुषधौरेयाः। अतः संसृतिमूल -कारणत्वान्मनसः मन एव अविद्यां प्राहुः

अविद्याकार्यत्वात् केवलाविद्यायाः संसृतिहेतुत्वाभावाच्च । मन एवा-

विद्येति कथनं युक्तमिति बोधयितुं प्रेत्युपसर्गः । तत्र हेतुः येनैव मनसैव

विश्वं सर्वंजगत् सर्वे जीवा इति यावत् । भ्राम्यते अन्यथाग्रहणेन ऊर्ध्व-

मधश्च नीयते । तत्र दृष्टान्तः वायुनेवाभ्रमण्डलं, मेघसमुदाय: वायुना

यथा सर्वासु दिक्षु भ्राम्यते तथा ॥ १८२ ॥
 
११८
 

 
इदानीं मुमुक्षुजनकर्तव्यमाह। तदिति ।
 

 
तन्मनश्शोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
 

विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥ १८३॥
 

 
तत् पूर्वकथितकारणात् रजस्तमोदोषवतः पुंस: अध्यासद्वारा

संसृतिहेतुरितिरूपात् । मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्ट-

यत्नेन मनश्शोधनं मनोगत-रजस्तमोरूप-दोषापनयनं कार्यं विधेयं

चकारो हेत्वर्थः यत इति । एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने

केवलसत्वप्रधाने, मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः

॥ १८३॥
 

 
मनश्शुद्धिहेतु-प्रयत्नप्रकारमाह । मोक्षेति ।
 

 
मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म ।

सच्छ्रद्धया यश्श्रवणादिनिष्ठो रजस्स्वभावं स धुनोति बुद्धेः ॥ १८४॥
 

 
मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया, विषयेषु

देहादिषु रागं सुखजनकत्व भ्रान्त्या आसक्तितिं निर्मूल्य अहंतानिरसनेन

परित्यज्य, सर्वकर्म निष्काम कर्माणि नित्यनैमित्तिकानि च, सन्यस्य स्वरूप-

तोपि परित्यज्य । सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती

अचंचला वा याश्रद्धा गुरुवेदान्तवाक्यविश्वासः तया यः पुमान् श्रवणादि-

निष्ठः श्रवणं आदि ययोः मनननिदिध्यासनयोः तेषु श्रवणादिषु निष्ठा

नितरां स्थितिः यस्य सः श्रवणादिनिष्ठः सः पुरुषः बुद्धेः रजस्स्वभावं रजसः

स्वभावः विक्षेपः तं । धुनोति चालयति नितरां नाशयतीति यावत् ।