2023-02-20 14:42:51 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
तत्वदर्शिनः तत्वं द्रष्टुं शीलं येषां ते । पण्डिताः श्रुतवेदान्ताः
पुरुषधौरेयाः। अतः संसृतिमूल कारणत्वान्मनसः मन एव अविद्यां प्राहुः
अविद्याकार्यत्वात् केवलाविद्यायाः संसृतिहेतुत्वाभावाच्च । मन एवा-
विद्येति कथनं युक्तमिति बोधयितुं प्रेत्युपसर्गः । तत्र हेतुः येनैव मनसैव
विश्वं सर्वजगत् सर्वे जीवा इति यावत् । भ्राम्यते अन्यथाग्रहणेन ऊर्ध्व-
मधश्च नीयते । तत्र दृष्टान्तः वायुनेवाभ्रमण्डलं, मेघसमुदाय: वायुना
यथा सर्वासु दिक्षु भ्राम्यते तथा ॥ १८२ ॥
११८
इदानीं मुमुक्षुजनकर्तव्यमाह। तदिति ।
तन्मनश्शोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैतस्मिन् मुक्तिः करफलायते ॥ १८३॥
तत् पूर्वकथितकारणात् रजस्तमोदोषवतः पुंस: अध्यासद्वारा
संसृतिहेतुरितिरूपात् । मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्ट-
यत्नेन मनश्शोधनं मनोगत-रजस्तमोरूप-दोषापनयनं कार्यं विधेयं
चकारो हेत्वर्थः यत इति । एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने
केवलसत्वप्रधाने, मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः
॥ १८३॥
मनश्शुद्धिहेतु-प्रयत्नप्रकारमाह । मोक्षेति ।
मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यश्श्रवणादिनिष्ठो रजस्स्वभावं स धुनोति बुद्धेः ॥ १८४॥
मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया, विषयेषु
देहादिषु रागं सुखजनकत्व भ्रान्त्या आसक्ति निर्मूल्य अहंतानिरसनेन
परित्यज्य, सर्वकर्म निष्काम कर्माणि नित्यनैमित्तिकानि च, सन्यस्य स्वरूप-
तोपि परित्यज्य । सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती
अचंचला वा याश्रद्धा गुरुवेदान्तवाक्यविश्वासः तया यः पुमान् श्रवणादि-
निष्ठः श्रवणं आदि ययोः मनननिदिध्यासनयोः तेषु श्रवणादिषु निष्ठा
नितरां स्थितिः यस्य सः श्रवणादिनिष्ठः सः पुरुषः बुद्धेः रजस्स्वभावं रजसः
स्वभावः विक्षेपः तं । धुनोति चालयति नितरां नाशयतीति यावत् ।