2023-02-20 14:42:50 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
११७
((
"
प्राणगुणैः विमोह्य स्ववास्तवरूपं ज्ञातुसमर्थं कृत्वा तेष्वेव देहेन्द्रिय-
प्राणगुणेषुदेहेन्द्रियप्राणेषु अहमिति तद्गुणेषु तद्धर्मेषु ममेति निबध्य ।
अजस्रं सततं स्वकृत्येषु लौकिक-वैदिक-कर्मसु । फलोपभुक्तिषु तत्तत्कर्म-
जन्यफलभोगेषु भ्रमयति ऊर्ध्वमधश्च नयति । 'कुर्वते कर्म भोगाय कर्म
कर्तुं च भुंजते " इत्युक्तेः । उक्तं हि श्रुत्या "आत्मानं चेद्विजानीयात्
अयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् '
इति । अतः विज्ञातस्वकासंग - चिदानन्दरूपः पुरुषः नैव किंचित्कामयते
न वा कर्माणि करोति । ततः कर्तृत्वं वा भोक्तृत्वं वा देहेन्द्रियाद्यभिमान -
निबन्धनम् । स चाभिमानः मनोमूल: सुषुप्तावदर्शनात् तदा मनसो
लीनत्वात् । अतः स्वरूपसत्याः अविद्यायाः मनो विना बन्धहेतुत्वा-
भावात् सर्ववन्धहेतुत्वं मनस एवेति भावः ॥ १८०॥
इदानीं तस्य बन्धद्वारा दुःखहेतुत्वमाह । अध्यासेति ।
अध्यासयोगात्पुरुषस्य संसृतिः
अध्यासबन्धस्त्वमुनैव कल्पितः ।
रजस्तमोदोषवतोऽविवेकिनो
जन्मादि- दुःखस्य निदानमेतत् ॥ १८१ ॥
रजस्तमोदोषवतः रजश्च तमश्च रजस्तमसी ते एव दोषौ तावस्य
स्त इति तद्वान् तस्य रजस्तमोदोषवतः आवरणविक्षेपहेतुभूत-दोषद्वय-
विशिष्टस्य अत एव अविवेकिनः आत्मानात्मभेदज्ञानरहितस्य पुरुषस्य
अध्यासयोगात् अनात्मस्वात्मबुद्धियोगात्, संसृतिः जन्ममरण-प्रवन्धा-
विच्छेदः। संसृतिहेत्वध्यासः मनोमूल इत्याह अध्यासबन्ध इति । अध्यास-
रूपो यो बन्धः सतु सोपि, शरीरेन्द्रियादयः मनसा प्रसूयन्ते इति
इदानीं तत्र अध्यासोपि अमुनैव कल्पितः जनितः
ततः जन्ममरण-प्रबन्धविच्छेद-लक्षण-संसृति हेतुभुता-
मनः
प्रसूते " इत्यत्रोक्तं ।
इत्यपिशब्दार्थः ।
ध्यास हेतुत्वेन । एतत् मन एव जन्मादिदुःखस्य जन्ममरण-जरा - रोगादि-
जन्य-सकल-विधदुःखस्य निदानं आदिकारणम् ॥ १८१॥
अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्वदर्शिनः ।
येनैव भ्राम्यते विश्वं वायुनेवाभ्र-मण्डलम् ॥ १८२ ॥