This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
११५
 
मोक्षहेतुतया मनश्शुद्धिः कथं संपादनीयेति शंकायामुत्तरमाह ।

विवेकेति ।
 

 
विवेक-वैराग्य-गुणातिरेकाच्छुद्धत्वमासाद्य मनो विमुक्त्यै ।

भवत्यतो बुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ १७७॥
 

 
विवेकश्च वैराग्यं च विवेकवैराग्ये ते एव गुणौ सत्फलप्रदमा
धर्मौ
तयोरतिरेकः अतिशयः विवेकदार्ढ्य वैराग्ये तीव्रतरत्वं च । तस्मात्

विवेकवैराग्यगुणातिरेकात् । ब्रह्म सत्यं जगन्मिथ्येत्येवं निश्चये मिथ्या-

वस्तुनि कामानुदयात् आब्रह्मलोकं वैराग्यं प्रकृष्यते । कामानुपहतेरेव

शुद्धिशब्दार्थत्वात् । तदुभयगुणयुक्तं मनः शुद्धत्वं निर्मलत्वं आसाद्य

प्राप्य विमुक्त्यै बहिर्मुखत्वशून्यतया ऐदंपर्येण ब्रह्मसंस्थं आत्यंतिकन्ध-

निवृत्तये हेतुर्भवति । अतो विवेकवैराग्यातिरेक-विशिष्टमनसो विमुक्ति-

हेतुत्वात् । बुद्धिमतः बुद्धिरस्यास्तीति बुद्धिमान् तस्य उपायकुशलस्येत्यर्थः

मुमुक्षोः मोक्षरूपफलेच्छावतः अग्रे आदौ ताभ्यां विवेकवैराग्याभ्यां

दृढाभ्यां आशिथिलाभ्यां प्रकृष्यमाणाभ्यां च भवितव्यम् उपायेच्छां

प्रति फलेच्छाया: कारणत्वात् । मोक्षेच्छावान् पुमान् विवेकवैराग्ये आदौ

प्रयत्नेन संपादयति चेत् फलमवर्जनीयमिति कथितं भवति ॥ १७७॥
 

 
मोक्षार्थं मनो निर्विषयं कर्तुं विषयेभ्यः निवर्तयितुं विवेकवैराग्ये

हेतू उक्त्वा रत्ने यदि शिलाबुद्धिः जायते वा भयं ततः । समीचीनत्वधी-

र्
नैति नोपादेयत्वधीरपि । इति वस्तुविचारवत् भयस्यापि यतो भयं ततो

निवृत्तिहेतुत्वात् तेषु भयमाह । मन इति । दयया भयोत्पादनद्वारा

तेभ्यो निवर्तयति ।
 

 
मनो नाम महाव्यत्घ्रः विषयारण्यभूमिषु ।
 

चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७८॥

 
विषयारण्यभूमिषु विषया एव अरण्यभूमय: अनेकानर्थसंकुलत्वात्

" विषयांस्तेषु गोचरान्" इतिश्रुतेश्च । तासु मनो नाम महाव्यत्र:
घ्रः
मनस्संज्ञक-चण्डपुण्डरीकः चरति संचरति । परांचि खानीति श्रुतेः

विषयप्रवणता मनसः स्वभाव: निम्नभूमिगमनमिव जलस्य । ततः

"
बन्धाय विषयासक्त " मितिश्रुतेः जीवस्य महाननर्थस्संभवति ।
 
(6