This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विशाल-करालकाल-नक्रग्रहग्रसन-निग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनि-

पीडितस्य लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ इत्यादिरीत्या
 

अविद्यातद्विलासरूपस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वात्

वारिधित्वेन रूपणम् । नह्यनात्मानं देहमात्मत्वेन मन्वानस्य
 

तस्मिन् जायमाने श्म्रियमाणे वा तद्गतधर्मः स्वस्मिन्नास्तीति विज्ञातुं

शक्यं, क्षुत्पिपासायुते वा प्राणे, सुखिनि दुःखिनि वान्तःकरणे ।

एवमविद्यास्मितारागद्वेषाभिनिवेशानां संततत्वात् क्लेशादिपंचकस्य
 
"
 

तरंगतया रूपणं, भ्रम एव भ्रमः अतस्मिंस्तद्बुद्धिरेव आवर्तः इत्यादि

स्पष्टम् । अनाद्यविद्यावशात् " अज्ञ: कर्ता मनुष्योहम्" इत्यादिरीत्या

स्थूलसूक्ष्मकारण-शरीरेषु अनात्मसु अहमिति स्वरूपाप्राप्त्या स्थितिरेव

संसारवारिधिमग्नत्वम् असंगसच्चिदान्दरूपस्यात्मनः । तत्रापि सुषुप्तौ

संसाराननुभवात् अविवेकिमनोरूपोपाधिमूलकत्वमेव वक्तव्यं संसारस्य ।

श्रूयते हि " मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्तं

मुक्त्यै निर्विषयं स्मृतम् "॥ इति, अतः विवेचनशून्यस्य मनसः शरीरादि

संसक्तत्वं आत्मनः संसारवारिधिमग्नत्वम् । अतः श्रवणमननादि-

शास्त्रीय-संस्कार -संस्कृतं मनो यदा भवति तदा भ्रमशून्यं आत्मयाथात्म्य -

ज्ञानावाप्त्या भवतीति, अविवेकि मनः शास्त्रजन्यविवेकवता मनसा

उद्धरेत् अनात्मभ्योऽपनयेत् । तथाच तस्मिन् पराङ्मुखत्वस्वाभाव्यात्

बाह्येषु शरीरादिषु सक्ते वस्तुतोऽसंगस्यापि लोहितस्फटिकवत् संसक्तस्येव

भासमानस्य आत्मन:
उपाधेरनात्मसंबन्धाभावे प्रत्यङ्मुखतयाऽत्म-

मात्रसंस्थत्वे च आत्मा उद्धृत इव भवतीति भावः । संसारवारिधौ

मग्नमात्मानं योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरे-

दित्यन्वयः । योगारूढत्वं विशदयन्नेव श्रवणमनननिदिध्यासनानि

संन्यासोत्तरकालिकानि सम्यग्दर्शननिष्ठावाप्तिसाधनानि तावदाह

संन्यस्येत्यादिना ।
 
भासमानस्य आत्मन:
 

 
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
 

यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १० ॥
 

 
सर्वकर्माणि संन्यस्य कर्मकाण्डोक्तानि स्वरूपतोपि परित्यज्य,
 

भवबन्धविमुक्तये सांसारिकबन्धनिवृत्तिहेतुभूतसम्यग्दर्शननिष्ठायै, पण्डितैः