2023-02-20 14:42:32 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
विशाल-करालकाल-नक्रग्रहग्रसन-निग्रहविग्रहस्य । व्यग्रस्य रागनिचयोमिनि-
पीडितस्य लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ इत्यादिरीत्या
अविद्यातद्विलासरूपस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वात्
वारिधित्वेन रूपणम् । नह्यनात्मानं देहमात्मत्वेन मन्वानस्य
तस्मिन् जायमाने श्रियमाणे वा तद्गतधर्मः स्वस्मिन्नास्तीति विज्ञातुं
शक्यं, क्षुत्पिपासायुते वा प्राणे, सुखिनि दुःखिनि वान्तःकरणे ।
एवमविद्यास्मितारागद्वेषाभिनिवेशानां संततत्वात् क्लेशादिपंचकस्य
"
तरंगतया रूपणं, भ्रम एव भ्रमः अतस्मिंस्तद्बुद्धिरेव आवर्तः इत्यादि
स्पष्टम् । अनाद्यविद्यावशात् " अज्ञ: कर्ता मनुष्योहम्" इत्यादिरीत्या
स्थूलसूक्ष्मकारण-शरीरेषु अनात्मसु अहमिति स्वरूपाप्राप्त्या स्थितिरेव
संसारवारिधिमग्नत्वम् असंगसच्चिदान्दरूपस्यात्मनः । तत्रापि सुषुप्तौ
संसाराननुभवात् अविवेकिमनोरूपोपाधिमूलकत्वमेव वक्तव्यं संसारस्य ।
श्रूयते हि " मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्तं
मुक्त्यै निविषयं स्मृतम् ॥ इति, अतः विवेचनशून्यस्य मनसः शरीरादि
संसक्तत्वं आत्मनः संसारवारिधिमग्नत्वम् । अतः श्रवणमननादि-
शास्त्रीय-संस्कार संस्कृतं मनो यदा भवति तदा भ्रमशून्यं आत्मयाथात्म्य -
ज्ञानावाप्त्या भवतीति, अविवेकि मनः शास्त्रजन्यविवेकवता मनसा
उद्धरेत् अनात्मभ्योऽपनयेत् । तथाच तस्मिन् पराङ्मुखत्वस्वाभाव्यात्
बाह्येषु शरीरादिषु सक्ते वस्तुतोऽसंगस्यापि लोहितस्फटिकवत् संसक्तस्येव
उपाधेरनात्मसंबन्धाभावे प्रत्यङ्मुखतयाऽत्म-
मात्रसंस्थत्वे च आत्मा उद्धृत इव भवतीति भावः । संसारवारिधौ
मग्नमात्मानं योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरे-
दित्यन्वयः । योगारूढत्वं विशदयन्नेव श्रवणमनननिदिध्यासनानि
संन्यासोत्तरकालिकानि सम्यग्दर्शननिष्ठावाप्तिसाधनानि तावदाह
संन्यस्येत्यादिना ।
भासमानस्य आत्मन:
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १० ॥
सर्वकर्माणि संन्यस्य कर्मकाण्डोक्तानि स्वरूपतोपि परित्यज्य,
भवबन्धविमुक्तये सांसारिकबन्धनिवृत्तिहेतुभूतसम्यग्दर्शननिष्ठायै, पण्डितैः