This page has been fully proofread once and needs a second look.

११४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
दार्ष्टान्तिके बन्धहेतुत्वं मोक्षहेतुत्वं च उपपादयति । देहेति ।

 
देहादिसर्वविषये परिकल्प्य रागं
 

बध्नाति तेन पुरुषं पशुवद्गुणेन ।

वैरस्यमत्र विषवत् सुविधाय पश्चा-

देनं विमोचयति तन्मन एव बन्धात् ॥ १७५॥
 

 
देहः आदिः यस्य सः, सर्वश्चासौ विषयश्च शब्दस्पर्शादिः पुत्रादिश्च

देहादिश्चासौ सर्वविषयश्च । शब्दादौ रागस्यापि देहमूलकत्वात्

देहादीति । तस्मिन् देहादिसर्वविषये । रागं परिकल्प्य दृढं जनयित्वा तेन

रागेण गुणेन रज्वा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सित - परमपद -

प्राप्त्ययोग्यं करोति। पश्चादनन्तरं तत् यद्बंधं जनयामास तत् मन

एव ।
अत्र देहादौ विषये वैरस्यं वैराग्यं अनासक्तितिं विषवत् विष इव

अनर्थकरत्वज्ञापनेन सुविधाय सुष्ठत्पाद्य एनं पुमांस बन्धात् देहाद्यभिमान-

लक्षणात् विमोचयति विशेषेण मोचयति । सदापि ब्रह्मणि संस्थया

पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः॥१७५॥
 
एव ।
 

 
बन्धमोक्षहेतुत्वं उपपादितं निगमयति । तस्मादिति ।
 

 
तस्मान्मनः कारणमस्य जन्तोः
 

बन्धस्य मोक्षस्य च वा विधाने ।

बन्धस्य हेतु: मलिनं रजोगुणैः
 

मोक्षस्य हेतुः विरजस्तमस्कम् ॥ १७६॥
 
"
 

 
तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा

विधाने उत्पादने । मनःकारणं " मन एव मनुष्याणां " इतिश्रुतेः ।

एकस्य विरुद्धद्वयहेतुत्वकथंतायां आह रजोगुणैः, प्रवृत्तयः बहुविधा: रज:-

कार्या इति बहुवचनं । नानाविधतया बहिर्मुखत्वापादकैः कामक्रोध-

लोभादि-रजोधर्मैरिति वा अर्थ: । मलिनं कलुषितं मनः बन्धस्य हेतुः ।

शुद्धं निर्मलं, तत्र हेतुमाह विरजस्तमस्कमिति । रजसा तमसा च नितरांरहितं
मनः मोक्षस्य हेतुरित्यर्थः । अतो मनसः एकत्वेपि गुणभेदान् विरुद्धद्वय-
हेतुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥