This page has not been fully proofread.

११४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
दान्तिके बन्धहेतुत्वं मोक्षहेतुत्वं च उपपादयति । देहेति ।
देहादिसर्वविषये परिकल्प्य रागं
 
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत् सुविधाय पश्चा-
देनं विमोचयति तन्मन एव बन्धात् ॥ १७५॥
 
देहः आदिः यस्य सः, सर्वश्चासौ विषयश्च शब्दस्पर्शादिः पुत्रादिश्च
देहादिश्चासौ सर्वविषयश्च । शब्दादौ रागस्यापि देहमूलकत्वात्
देहादीति । तस्मिन् देहादिसर्वविषये । रागं परिकल्प्य दृढं जनयित्वा तेन
रागेण गुणेन रज्वा पशुवत् पशुमिव पुरुषं बध्नाति स्वेप्सित - परमपद -
प्राप्त्ययोग्यं करोति। पश्चादनन्तरं तत् यबंधं जनयामास तत् मन
अत्र देहादौ विषये वैरस्यं वैराग्यं अनासक्ति विषवत् विष इव
अनर्थकरत्वज्ञापनेन सुविधाय सुष्ठत्पाद्य एनं पुमांस बन्धात् देहाद्यभिमान-
लक्षणात् विमोचयति विशेषेण मोचयति । सदापि ब्रह्मणि संस्थया
पुनर्यथा देहादिकं नाभिमन्यते तथा करोतीत्यर्थः॥१७५॥
 
एव ।
 
बन्धमोक्षहेतुत्वं उपपादितं निगमयति । तस्मादिति ।
 
तस्मान्मनः कारणमस्य जन्तोः
 
बन्धस्य मोक्षस्य च वा विधाने ।
बन्धस्य हेतु: मलिनं रजोगुणैः
 
मोक्षस्य हेतुः विरजस्तमस्कम् ॥ १७६॥
 
"
 
तस्मात् पूर्वोक्तहेतोः अस्य जन्तोः प्राणिनः बन्धस्य मोक्षस्य च वा
विधाने उत्पादने । मनःकारणं " मन एव मनुष्याणां " इतिश्रुतेः ।
एकस्य विरुद्धद्वयहेतुत्वकथंतायां आह रजोगुणैः, प्रवृत्तयः बहुविधा: रज:-
कार्या इति बहुवचनं । नानाविधतया बहिर्मुखत्वापादकैः कामक्रोध-
लोभादि-रजोधर्मैरिति वा अर्थ: । मलिनं कलुषितं मनः बन्धस्य हेतुः ।
शुद्धं निर्मलं, तत्र हेतुमाह विरजस्तमस्कमिति । रजसा तमसा च नितरांरहितं
मनः मोक्षस्य हेतुरित्यर्थः । अतो मनसः एकत्वेपि गुणभेदान् विरुद्धद्वय-
हेतुत्वं कालभेदेन अविरुद्धमिति भावः ॥१७६॥