This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
प्रथमेनान्वयमाह, अर्थशून्ये शरीरान्तर्वर्तिनाडीषु मनस्संचार-दशायां

स्वप्नावस्थेति श्रुत्या बोधितत्वात् केशतोपि सूक्ष्मासु तासु नाडीषु

गिरिनदी -समुद्रादीनां तदा प्रतीयमानानां असंभाविततया चक्षुरादीनां तदा

उपरतव्यापारत्वात् तद्वारा मनसः बहिर्निर्गमनाभावात् शरीराद्वहिर्वर्त-

मानानां प्रतीत्यभावाच्च केवलं मनोवर्तिवासनावशात् तदा अर्थाः बाह्या इव

प्रतीयन्ते नतु वस्तुसंतः इति अर्थशून्ये इत्युक्तं । तथाविधे स्वप्ने

स्वशक्त्या वासनाभिः केवलं स्वस्मिन् आत्मप्रतिफलनसामर्थ्येन च सर्वं

भोक्त्रादि विश्वं जगत् मन एव सृजति निर्मिमीते । यद्यपि जीव: भोक्ता

वर्तत इति भोक्त्रादीति कथमिति शंका भवितुमर्हति । तथापि भोग्याभावे

भोक्तृत्वाभावात् भोग्यसृष्टिहेतोः मनस एव निरूपकदानेन भोक्तृस्रष्टृत्वं

मन्तव्यम्। तथैव स्वप्नवदेव जाग्रत्यपि जाग्रदवस्थायामपि मन एव सर्वं

सृजति तो विशेषः । तत् तस्मात् सर्वमेतत् जगत् मनसो विजृम्भणं

विलासः ॥ १७२॥
 
११३
 

 
व्यतिरेकेण इममर्थं द्रढयति । सुषुप्तीति ।

 
सुषुप्तिकाले मनसि प्रलीने नैवास्ति किंचित् सकलप्रसिद्धेः।

अतो मनः कल्पित एव पुंसः संसार एतस्य न वस्तुतोस्ति ॥ १७३॥
 

 
सुषुप्तिकाले सुषुप्त्यवस्थायां मनसि प्रलीने परिणामान् विहाय

कारणात्मना अवतिष्ठमाने नैवास्ति किंचित् जगत् । सकलप्रसिद्धेः

सर्वप्राण्यनुभवात् न किंचिदवेदिषमिति । अतः एतस्य वद्धस्य पुंसः संसार:

मनःकल्पित एव । वस्तुत: परमार्थतः नास्ति मनस्सत्वे स्वप्नजाग्रतोः

संसारोपलब्धेः मनसः असत्वे सुषुप्तावनुपलंभात् । मृदन्वयव्यतिरेकानु-

विधायि -घट इव मृद्व्यतिरेकेण मनोव्यतिरेकेण संसारो नास्तीति

तस्मिन्विनष्टे इति यदुक्तं पूर्वं तदुपपादितम् ॥१७३।
 

 
वायुदृष्टान्तेन एकस्यैव तस्य विरुद्धद्वयहेतुत्वमाह । वायुनेति ।
 

 
वायुना नीयते मेघः पुनस्तेनैव लीयते ।

मनसा कल्प्यते बन्ध: मोक्षस्तेनैव कल्प्यते ॥ १७४॥

 
स्पष्टम् ॥ १७४॥