This page has not been fully proofread.

११२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
च तानि इन्द्रियाणि च पंचेन्द्रियाणि श्रोत्रत्वक्चक्षुजिह्वा प्राणानि तैरेव
पंचभिः होतृभिः हविरग्निसंयोगानुकूल-व्यापारवद्भिः प्रक्षेप्तृभिः । विष-
याज्यधारया विषयाः शब्दस्पर्श-रूपरसगंधाः त एव आज्यं तस्य धारा तया
प्रचीयमानः संवर्ध्यमानः नैरंतर्येण तत्तदिन्द्रियैः तत्तद्विषयाणां मनसि
निपात्यमानत्वात्, इन्धनेषु सत्सु आज्यधारा चेत् ज्वलनमधिकं अत आह
बहुवासनेन्धनैरिति बहव्यः याः वासनाः "दृढभावनयात्यक्तपूर्वापरविचारणं ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता" इति बन्धकत्वेपि विषयाणां सुख-
करत्व भ्रान्त्या तेषुउपादेयत्वभावनाः ता एव इन्धनानि शुष्ककाष्ठानि
इन्धनाभावे केवलाज्यधारायाः बहुकालज्वलनहेतुत्वाभावात् वासनाभावे
विषयाणां बन्धकत्वाभावाच्च । तैः बहुवासनेन्धनैः जाज्वल्यमानः पौनः-
पुन्येन निरंतरं ज्वलन् मनोमयः मनोरूपः अग्निः प्रपंचं दहति भस्मीकरोति
सर्वान्पुरुषान् पुरुषार्थायोग्यान् करोतीति यावत् ॥ १७०॥
 
अन्वयव्यतिरेकाभ्यां तस्य बन्धकत्वमाह । न ह्यस्तीति ।
नह्यस्त्यविद्या मनसोतिरिक्ता
 
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
 
विजृम्भितेस्मिन् सकलं विजृम्भते ॥ १७१॥
 
सुषुप्तौ कारणाविद्यासद्भावेपि बन्धस्याभावात् तत्कार्यमनस एव
बन्धकत्वं तदा तस्य लीनत्वात् बन्धाभाव इत्यभिप्रेत्य । मनसोतिरिक्ता
अविद्या नास्ति इत्युक्तम् । हि निश्चितं । हि यतः भवबन्धहेतुः अविद्या
तत्कार्यत्वात् मन एव । मनस्सत्वे देहादावभिमान - रूपबन्धात् तदभावे
अन्वयव्यतिरेकौ । तदेवोपपादयति
तस्मिन्विनष्टे मनसि विशेषेण निर्वासनं नष्टे सकलं विनष्टं । स्पष्टं हि
सुषुप्तौ जगदेव नास्तीति । अस्मिन्विजृम्भिते वर्धमाने सकलं विजृम्भते
सर्वमपि वृद्धिमाप्नोतीत्यर्थः ॥१७१॥
 
तदभावात्
 
मनो-भवबन्धयोः
 
तदेव विस्तरेणोपपादयति । स्वप्न इत्यादिना ।
स्वप्नेर्थशून्ये सृजतिस्वशक्त्या भोक्त्रादि विश्वं मन एवसर्वम् ।
तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ॥१७२॥