This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
मनसः
 
कार्यत्वात् ज्ञानन्द्रियाणां भूतपंचकसत्व-समष्टिकार्यत्वाच्च
एकस्मिन्कोशे घटनम् तेषामिति बोध्यम् । अहं शृणोमि अहं पश्यामि
अहं स्पृशामि अहं रसये अहं जिघ्रामि अहं कामये संकल्पये इत्यादिना
 
""
 
सर्वत्र आत्मबुद्धेः सत्वात् 'तस्माद्वा एतस्मात्प्राणमयात् अन्योन्तर आत्मा
 
मनोमयः" इतिश्रुत्या अयमपि स्वोपलब्ध्या आत्मयाथात्म्योपलब्धिं प्रति-
बघ्नातीति कोश इत्युच्यते । तस्य कार्यमाह ममाहमिति वस्तुविकल्पहेतुः,
देहेन्द्रियादौ गृहक्षेत्रादौ अहंतां ममतां च मन एव संकल्पविकल्पात्मकत्वात्
जनयतीति वस्तुषु देहगेहादिषु अहममेत्यादयः ये विकल्पाः तेषां हेतुरित्यर्थः ।
तस्य स्वरूपमाह संज्ञादिभेद - कलना-कलित इति । संज्ञा नाम, आदिपदेन
रूपं भिद्यत इति भेदः संज्ञादिरूपः यो भेदः अस्य वस्तुनः घटः कलश:
कुम्भ इत्यादिसंज्ञा, पृथुबुध्नोदराद्याकारः रूपं नीलपीतादिकं च इति
रीत्या सर्वपदार्थेष्वपि भिद्यमान-नामरूपादिविषककलनया कलितः विशिष्ट
इत्यर्थः। सर्वा अपि वृत्तयः शब्दविषयिण्यः अर्थविषयिण्यश्च मन, आश्रित्य
वर्तन्ते । अतः शब्दार्थव्यतिरिक्त-प्रपंचस्य अभावात् सर्वोपि प्रपंच ः मनसि
स्वविषयकवृत्तिमति वर्तत इति बलीयान्, बन्धस्य मोक्षस्य च एतदधीनत्वात्
अन्नमये प्राणमये वा ज्ञानशक्त्यभावात् ततो बलिष्ठत्वं अस्य । एतत्संबंधा-
भावे तत्रात्मसंबंधाभावाच्च । तदाह तत्पूर्वकोशमनुपूर्य इति । तस्य
पूर्वकोशः तत्पूर्वकोशः प्राणमयः तं अनुपूर्यं विज्ञानमयकोशेन स्वयं पूरितः
तदनु प्राणमयं व्याप्य यो विजृम्भते निरर्गलं स्वकार्यं करोति स मनोमय
इत्यन्वयः। तत्पर्यायेपि श्रुतिः " स वा एष पुरुषविध एव तस्य पुरुष-
विधतां अन्वयं पुरुषविध : " इति ज्ञेया ॥ १६९॥
 
तस्य बन्धकत्वं विशदयति । पंचेन्द्रियैरित्यादिना चतुर्भिः ।
पंचेन्द्रियैः पंचभिरेव होतृभिः
 
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेन्धनैः
 
मनोमयोग्निः दहति प्रपंचम् ॥ १७० ॥
 
१११
 
सुखप्रतिपत्तये मनोमयमग्नित्वेन श्रोत्रादीन्द्रियाणि होतृत्वेन पुनः
पुनः संपततः विषयानाज्यधारात्वेन विषयवासनाः इन्धनत्वेन रूपयति । पंच