This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
इदानीं तस्य अनात्मत्वमाह। नैवेति ।
 

 
नैवात्मायं प्राणमयो वायुविकारो

गन्तागन्ता वायुवदन्तर्बहिरेषः ।
यस्मात्कि

यस्मात्किं
चित्क्वापि न वेत्तीष्टमनिष्टं
 

स्वं वान्यं वा किंचननित्यं परतन्त्रः ॥ १६८॥
 
इदानीं तस्य अनात्मत्वमाह
 

 
वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः अयं प्राणमयः

नैवात्मेति प्रतिज्ञा । तत्र हेतुः वायुवत् एषः प्राणमय: अन्तः बहिः गन्ता

आगन्ता निश्वासे अन्तर्गन्ता उच्छ्वासे बहिरागन्ता । यथा बाह्यवायुः ।

सक्रियः परिच्छिन्नश्चायं सर्वव्यापी निष्क्रिय: आत्मा न भवतीति भावः ।

सक्रियत्वात् परिच्छिन्नत्वात् बाह्यवायुंवदिति सदृष्टान्तो हेतुः । एव-

मचेतनत्वं परतन्त्रत्वं च अनात्मत्वे हेतुमाह उत्तरार्धेन । यस्मादयं

प्राणमयः इष्टमनिष्टं वा सुखं दुःखं वेत्यर्थः क्वापि कस्मिन्नपि काले देशे

वा स्वं वा अन्यं वा स्वात्मानं परं वा न वेत्ति न जानाति नित्यं परतन्त्रः

जीवनयोनियत्नजन्यसंचारवत्वात्, प्राणायामादिकाले तस्य निरुध्यमानत्वं

प्रसिद्धं । अतः सक्रियत्व-परिच्छिन्नत्वा चेतनत्व- पराधीनत्वहेतुभिः एत-

द्विलक्षण: आत्मा न भवति । यद्ययमात्मा तहिंर्हि सुषुप्तिदशायां जागरूकत्वात्

चोरादिबाधां जानीयात् । आत्मनः सर्वप्रधानत्वात् स्वभृत्येषु चक्षुरादिषु

स्वपत्सु स्वयं व्यापारवानिति विरुद्धं च अतः नैवात्मायं प्राणमयः ॥१६८॥

 
इदानीं मनोमयं निरूपयति । ज्ञानेन्द्रियाणीति ।

 
ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्

कोशो ममाहमिति वस्तुविकल्पहेतुः ।

संज्ञादिभेदकलना-कलितो बलीयान्
 

तत्पूर्वकोशमनुपूर्य विजृंभते यः ॥ १६९ ॥

 
श्रवणदर्शनादि-कार्यकरणानि ज्ञानेन्द्रियाणि श्रोत्रचक्षुस्त्वग्जिह्वा-

घ्राणानि मन: कामसंकल्प-विचिकित्सा - -श्रद्धादिवृत्तिकं मनश्च मनोमयः

तथाशब्दितः कोशः स्यात् । सर्वेन्द्रियव्यापारस्यापि मनोधीनत्वात् इन्द्रिया-

भावेपि स्वप्ने सत्वाच्च मनसः तत्प्रधानतया मनोमय इति संज्ञा न तु

श्रोत्रमय इति संज्ञा इति भावः । अत्रापि प्रत्येकाकाशादिपंचभूत-सत्व-