2023-02-20 14:42:49 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
नैवेति ।
नैवात्मायं प्राणमयो वायुविकारो
गन्तागन्ता वायुवदन्तर्बहिरेषः ।
यस्मात्किचित्क्वापि न वेत्तीष्टमनिष्टं
स्वं वान्यं वा किंचननित्यं परतन्त्रः ॥ १६८॥
इदानीं तस्य अनात्मत्वमाह
वायुविकारः वायोर्विकारः वायुविकारः वायुकार्यः अयं प्राणमयः
नैवात्मेति प्रतिज्ञा । तत्र हेतुः वायुवत् एषः प्राणमय: अन्तः बहिः गन्ता
आगन्ता निश्वासे अन्तर्गन्ता उच्छ्वासे बहिरागन्ता । यथा बाह्यवायुः ।
सक्रियः परिच्छिन्नश्चायं सर्वव्यापी निष्क्रिय: आत्मा न भवतीति भावः ।
सक्रियत्वात् परिच्छिन्नत्वात् बाह्यवायुंवदिति सदृष्टान्तो हेतुः । एव-
मचेतनत्वं परतन्त्रत्वं च अनात्मत्वे हेतुमाह उत्तरार्धेन । यस्मादयं
प्राणमयः इष्टमनिष्टं वा सुखं दुःखं वेत्यर्थः क्वापि कस्मिन्नपि काले देशे
वा स्वं वा अन्यं वा स्वात्मानं परं वा न वेत्ति न जानाति नित्यं परतन्त्रः
जीवनयोनियत्नजन्यसंचारवत्वात्, प्राणायामादिकाले तस्य निरुध्यमानत्वं
प्रसिद्धं । अतः सक्रियत्व-परिच्छिन्नत्वा चेतनत्व- पराधीनत्वहेतुभिः एत-
द्विलक्षण: आत्मा न भवति । यद्ययमात्मा तहिं सुषुप्तिदशायां जागरूकत्वात्
चोरादिबाधां जानीयात् । आत्मनः सर्वप्रधानत्वात् स्वभृत्येषु चक्षुरादिषु
स्वपत्सु स्वयं व्यापारवानिति विरुद्धं च अतः नैवात्मायं प्राणमयः ॥१६८॥
इदानीं मनोमयं निरूपयति । ज्ञानेन्द्रियाणीति ।
ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्
कोशो ममाहमिति वस्तुविकल्पहेतुः ।
संज्ञादिभेदकलना-कलितो बलीयान्
तत्पूर्वकोशमनुपूर्य विजृंभते यः ॥ १६९ ॥
श्रवणदर्शनादि-कार्यकरणानि ज्ञानेन्द्रियाणि श्रोत्रचक्षुस्त्वग्जिह्वा-
घ्राणानि मन: कामसंकल्प-विचिकित्सा - श्रद्धादिवृत्तिकं मनश्च मनोमयः
तथाशब्दितः कोशः स्यात् । सर्वेन्द्रियव्यापारस्यापि मनोधीनत्वात् इन्द्रिया-
भावेपि स्वप्ने सत्वाच्च मनसः तत्प्रधानतया मनोमय इति संज्ञा न तु
श्रोत्रमय इति संज्ञा इति भावः । अत्रापि प्रत्येकाकाशादिपंचभूत-सत्व-