This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
46
 
देहादौ चित्ते त्यक्ते तु मनसः संचाराभावे वासनात्मनाप्यभिमानाभावे

पुन: भवाशा संसाराशा नैवेत्यर्थः । "अहंभावस्य देहेस्मिन् निश्शेष-

विलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु" इति वक्ष्यमाण-

त्वात् । "देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानवाबाधकं । आत्मन्येव भवेद्यस्य

स जीवन्नपि मुच्यते" इति प्रमाणात् ॥ १६६॥
 

 
अन्नमयं निरूप्य ततः आन्तरं प्राणमयं श्रौतक्रमेण अनात्मानं

निरूपयति । कर्मेन्द्रियैरित्यादिना द्वाभ्यां ।
 
१०९
 

 
कर्मेन्द्रियैः पंचभिरंचितोयं प्राणो भवेत्प्राणमयस्तु कोशः ।

येनात्मवानन्नमयोनुपूर्णः प्रवर्ततेसौ सकलक्रियासु ॥ १६७ ॥
 

 
पंचभि: वाक्पाणिपादपायपस्थाख्यैः कर्मेन्द्रियैः वचनादानविहरणो-

त्सर्गानन्द-रूपकर्मजनकैकैः इन्द्रियैः क्रमेण आकाशादिपंचभूतरजोंशजातः
तैः
अंचितः विशिष्ट इत्यर्थः । भूतपंचक-समष्टिरजःकार्य: प्राणः शरीरान्त -

स्संचारी वायुः प्राणमय: तच्छब्दशब्दितः । कोश: अशनाया - -पिपासादि-

धर्मैः आत्मानमावृण्वन् अपिपास - -विजिघत्सात्मोपलब्धिप्रतिबंधिका या

अहं पिपासार्तः क्षुत्पीडित: इत्यादिरुपलब्धि: तद्विषयो भवतीत्यर्थः ।
'

"
तेनैष पूर्ण:, सवा एष पुरुषविध एव, तस्य पुरुषविधतां, अन्वयं पुरुष-

विधः" इति प्राणमय-पर्यायस्थ - श्रुत्यर्थमाह, येन प्राणमयेन आनन्दमय-

विज्ञानमय-मनोमयद्वारा आत्मप्रतिफलनवत्वेन
 
((
 

आत्मवता अन्नमयः
"
 
46
 
आत्मवता अन्नमयः
 
'
तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः
 
" इति श्रुतेः
 
"
 
आत्मवान् आत्मप्रतिफलनवान् ।
तत्र हेतुः अनुपूर्ण इति,
"स एष इह
प्रविष्ट आ नखाग्रेभ्यः" इतिश्रुतेः प्राणस्य पूर्णतामनुपूर्ण: "तस्य

पुरुषविधतां अन्वयं पुरुषविधः" इतिश्रुतेः । तथाविधस्सन् सकलक्रियासु

हिताहितप्राप्तिपरिहारार्थासु प्रवर्तते । अचेतनं चेतनाधिष्ठितं कार्यं

करोतीति न्यायात् । यद्भागे प्राणसंबन्धो नास्ति तत्र निर्व्यापारत्वं

लोकसिद्धमिति प्राणसंबन्धादेव शरीरे व्यापारः, मृते तदभावादेव आत्म-

संबन्धद्वाराभावात् अचेतनत्वं । अत्र समष्टिव्यष्टिकार्यत्वविशेषसत्वेपि

रजोगुणकार्यत्वं समानमिति कर्मेन्द्रियाणां प्राणमयेन्तर्भाव इति मन्तव्यम्
 

॥१६७॥
 
"
 
14