This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
46
 
देहादौ चित्ते त्यक्ते तु मनसः संचाराभावे वासनात्मनाप्यभिमानाभावे
पुन: भवाशा संसाराशा नैवेत्यर्थः । अहंभावस्य देहेस्मिन् निश्शेष-
विलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु" इति वक्ष्यमाण-
त्वात् । "देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानवाधकं । आत्मन्येव भवेद्यस्य
स जीवन्नपि मुच्यते" इति प्रमाणात् ॥ १६६॥
 
अन्नमयं निरूप्य ततः आन्तरं प्राणमयं श्रौतक्रमेण अनात्मानं
निरूपयति । कर्मेन्द्रियैरित्यादिना द्वाभ्यां ।
 
१०९
 
कर्मेन्द्रियैः पंचभिरंचितोयं प्राणो भवेत्प्राणमयस्तु कोशः ।
येनात्मवानन्नमयोनुपूर्णः प्रवर्ततेसौ सकलक्रियासु ॥ १६७ ॥
 
पंचभि: वाक्पाणिपादपायपस्थाख्यैः कर्मेन्द्रियैः वचनादानविहरणो-
त्सर्गानन्द-रूपकर्मजनकै इन्द्रियैः क्रमेण आकाशादिपंचभूतरजोंशजातः
अंचितः विशिष्ट इत्यर्थः । भूतपंचक-समष्टिरजःकार्य: प्राणः शरीरान्त -
स्संचारी वायुः प्राणमय: तच्छब्दशब्दितः । कोश: अशनाया - पिपासादि-
धर्मैः आत्मानमावृण्वन् अपिपास - विजिघत्सात्मोपलब्धिप्रतिबंधिका या
अहं पिपासार्तः क्षुत्पीडित: इत्यादिरुपलब्धि: तद्विषयो भवतीत्यर्थः ।
'तेनैष पूर्ण:, सवा एष पुरुषविध एव, तस्य पुरुषविधतां, अन्वयं पुरुष-
विधः इति प्राणमय-पर्यायस्थ - श्रुत्यर्थमाह, येन प्राणमयेन आनन्दमय-
विज्ञानमय-मनोमयद्वारा आत्मप्रतिफलनवत्वेन
 
((
 
"
 
46
 
आत्मवता अन्नमयः
 
'तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः
 
इति श्रुतेः
 
"
 
आत्मवान् आत्मप्रतिफलनवान् । तत्र हेतुः अनुपूर्ण इति,
स एष इह
प्रविष्ट आ नखाग्रेभ्यः" इतिश्रुतेः प्राणस्य पूर्णतामनुपूर्ण: "तस्य
पुरुषविधतां अन्वयं पुरुषविधः" इतिश्रुतेः । तथाविधस्सन् सकलक्रियासु
हिताहितप्राप्तिपरिहारार्थासु प्रवर्तते । अचेतनं चेतनाधिष्ठितं कार्यं
करोतीति न्यायात् । यद्भागे प्राणसंबन्धो नास्ति तत्र निर्व्यापारत्वं
लोकसिद्धमिति प्राणसंबन्धादेव शरीरे व्यापारः, मृते तदभावादेव आत्म-
संबन्धद्वाराभावात् अचेतनत्वं । अत्र समष्टिव्यष्टिकार्यत्वविशेषसत्वेपि
रजोगुणकार्यत्वं समानमिति कर्मेन्द्रियाणां प्राणमयेन्तर्भाव इति मन्तव्यम्
 
॥१६७॥
 
"
 
14